Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 31
________________ ॥७॥ * . इतवारामिकाःसर्वे, तस्मै नूतनभूभुजे। विचित्रपुष्पमाल्यानि, प्राभृतीचक्रिरे मुदा ॥१२१॥ श्रुत्वा नवं नृपं पालो, दध्यौ नूनं ममानुजः। मन्नाम ख्यापयत्येष, मद्भक्त्या भूपतिरभूत् ॥१२२॥ इतवारामिकः सोऽपि, राजाप्राभृतकार्यकम् । पुष्पाण्यानीय चित्राणि, गृहे मुक्त्वा ययौ * *कचित् ॥१२॥ स्वज्ञापनचिकी: पालो माल्यं जग्रन्थ तैः सुमैः । स्वपितृमातृनामादि-गर्भसन्दर्भभासुरम् ॥१२४॥ अपूर्वरचनं माल्यं, वीक्ष्य अ हृष्टोऽथ मालिकः । गत्वा नत्वार्पयामास, भूवासवकरामुजे ॥१२५॥ स्वपित्राद्यभिधां वीक्ष्य, श्मापतिर्विस्मितो जगौ । केनेदं गुम्फितं भद्र ! पालगोपाल स प्राहातिथिना प्रभो ! ॥१२६॥ दध्यौ राजा मम ज्यायान्, माल्यकर्ता स निश्रितम्, यतो न्यस्येद्दशी नास्ति, कला सकलभूतले ॥१२७॥ कथा ध्यात्वेति सुचिरं तस्मै, तुष्टो द्रव्यं ददौ बहु। मालिकोऽपि गृहं गत्वा, निजचित्ते ब्यचिन्तयत् ॥१२८॥ यदार्पितं मया माल्यं, निभाल्य सुचिरं ॥७॥ तदा । केनेदं गुम्फितमिति, सनिःश्वासं नृपोऽवदत् ॥१२९॥ अयं राज्ञो द्विषन् भावी, कश्चिनिष्कासयाम्यतः। अज्ञातकुलशीलानां, न देया वसतिर्यतः ॥१३०॥ ततोऽपमानितस्तेन, पालो गेहाद्विनिर्ययौ। इतश्च भूभुजा प्रेषि, दासी मालिकमाहसा ॥१३१।। स माल्यकारको भद्र ! कागात् स उचे न वेम्यहम् । नैकत्र स्थायिनो भद्रे !, वैदेशिकनरा यतः ॥१३२॥ तया च भूभुजे प्रोक्तं, सोऽगान ज्ञायते कचित् । ततो गवेषितो राज्ञा, सर्वत्र नगरान्तरे ॥१३३॥ न लब्धः स यदा कापि, वियोगार्तेन भूभुजा । अभिग्रहा अगृह्यन्त, तदैवं भ्रातृभक्तितः ॥१३॥ क्रीडया न वने गम्यं, शयनीयं न मञ्चके । तावदाज्यं न भोक्तव्यं, यावन्नति ममाग्रजः ॥१३५।। इतश्च पालस्तत्रैव, धनदत्तस्य वेश्ममि, सांयात्रिकमहेभ्यस्या-ऽश्ववाणिज्यकृतो ययौ ॥१३६॥ भुजिष्यत्वेन तत्रास्था-द्रञ्जयन् श्रेष्ठिनं गुणैः । सोऽपि सञ्जातविश्वासः, कोशाध्यक्षं तमातनोत् ॥१३७॥ यियासुः सिंहलद्वीपं, धनदत्तोऽन्यदा वणिक् । भाण्डानि तुरगांश्चासौ, प्रगुणीकृतवान् गुणी ॥१३८।। प्रपूर्य * यानपात्राणि, धनदत्तोऽधिरूढवान् । सपालो दिवसैः स्तोकैः, सिंहलद्वीपमाप च ॥१३९॥ स सर्व भाण्डमुत्तार्य, पालं मुक्त्वा तदन्तिकम् ।* स्वयं नगरमध्येऽगाद्, व्यवसायकृते सुधीः ॥१४०॥ व्यवसायमथाधाय, भाण्डैः पोतान् प्रपूर्य च । प्रस्थानाभिमुखं पालः, श्रेष्ठिनं तं जगाविति **॥१४१॥ पुरि स्वामिन् ! यियासामि, कौतुकालोकनेच्छया । सोऽप्यूचे ब्रज वीक्षस्व, त्वरितं पुनराव्रजेः ॥१४२॥ पालोऽपि पुरमालोक्य, *

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166