Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 41
________________ ॥३॥ कथा तेन-कपर्दियक्षेण बहिर्गत्वा तस्य कामघटः समर्पितः, मंत्रिणोक्तं-भो यक्ष ! अहमेनं घटं कथं गृह्णामि ? कथं वा स्थापयामि ? अनेन समीपस्थेन । च पुरुषस्य लज्जा स्यात्, ततो देवेनोक्तमनुत्पाटित एवायं घटोऽद्दष्टः सन् तव पृष्टावागमिष्यति, ततो मंत्रिणा मानितं, ततः स मंत्री कृतकृत्यः सन् तं कामकुभं लात्वा स्वगृहं लात्वा स्वगृहं प्रति चलितः।। 1 अथ पश्चाद्वलमानः स तस्यामेवाटव्यां समागतः, तदा राक्षसोऽपि समायातः, तेन राक्षसेनोक्तमथ त्वं स्वं वचः पालय. मंत्रिणोक्तंकामकुंभ पालयिष्यामि, परं किमनेन मेऽशुचिना शरीरेण भक्षितेन ? यतः-रसासृग्मांसमेदास्थि-मज्जाशुक्राणि धातवः । सप्तैव दश वैकेषां, रोमत्वक्स्नायुभिः सह ॥११॥ अमेध्यपूर्णे कृमिजालसंकुले, स्वभावदुर्गंध अशौचनिन्हवे । कलेवरे मूत्रपुरीषभोजने, लपंति मूढा विरमंति पंडिताः ॥१२॥ ॥३॥ पुनर्मत्रिणोक्तं - हे राक्षस ! मम शरीरेण तव कार्य वा सरसरसवत्या तब कार्य ? तेनोक्तं तर्हि सरसां रसवतीं देहि, तदा तेन मंत्रिणा कामघटप्रभावेण यथेष्टां रसवतीं तस्मै दत्वा तस्य दिव्याहारो भोजितः, ततः संतुष्टेन राक्षसेनोक्तमेवंविधा रसवती त्वया कथं दत्ता ? सधर्मेणाऽसत्यपापभीरूणा च तेन मंत्रिणा सत्यमेवोक्तं यत्कामघटप्रभावेण, ततो राक्षसेन स कामघटो याचितः, तदा मंत्रिणोक्तमेवंविधं कामघटमहं कथं तबाऽर्पयामि ? राक्षसेनोक्तं - यदि त्वमर्पयिष्यसि तदाऽहमतः परं हिंसां न करिष्यामि, तव च ततः पुण्यं भविष्यति, अहमपि सच तव सकलकार्यकरं रिपुशस्त्रनिवारकं कथितकार्यकारकं देवताधिष्ठितं च दंडमर्पयिष्यामि, अतस्त्वं मे कामघटं समर्पय, मंत्रिणोक्तमहं समर्पयामि, 3 तथापि तवाऽधर्मेण स न स्थास्यति सर्वथा, राक्षसेनोक्तमहं सर्व प्रयत्नेन स्थापयिष्यामि इत्युक्ते मंत्री दंडप्रभावं ज्ञात्वा घटं च तस्मै अर्पयित्वा दंडं च गृहीत्वाऽग्रतश्चचाल, तस्य मंत्रिणो गच्छतो द्वितीयदिने बुभुक्षा लग्ना, तदा तेन दंडवालपितो, यत्त्वं भोजनं दास्यसि ? तेनोक्तं-न हि भोजनदाने मम सामर्थ्य, 班班班班班

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166