Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥७॥
३ द्वितीयदिने तेन सगौरवं भोजिताः । तोऽग्रतः प्राप्ताः किमपि पुरं, व्यवहारिपुत्रस्तत्र गतः, स्वमुद्रिका न्यासीकृत्य गृहीतधनेन चतुष्पथे ३६
सर्ववस्तुपरीक्षाविचक्षणः क्रयाणकानां क्रयविक्रयं कृत्वा दीनारपञ्चशता लाभमवापन्, लाभद्रव्येण भोजिताः सर्वे वयस्याः, मूलधनेन च स्वमुद्रिका सुपात्रदान पुनर्गृहीता। अय मन्त्रिसुतवारके कस्मिन्नपि नगरे प्राप्ताः तत्र पटहं वाद्यमानं श्रुत्वा मन्त्रिसुतस्तत्र वास्तव्यं कमपि नरमप्राक्षीत्-किमेतदिति, सप्राहमेघनादराज ई अत्राऽधुना कोऽपिधूर्तः सार्थपतिनामानं व्यवहारिणं प्रोवाच, मया तव पार्श्वे द्रम्मलक्षमेकं मुक्तमस्ति स्थापनिकायां, सार्थपतिरभाणीत्-भो ! कोऽत्र मदन कथा साक्षी, धूर्तःप्राह-सार्थपते ! स्थापनिकायां परमेश्वर एव साक्षीक्रियते नान्यः, विवदमानौ तौ राजसभां प्राप्तौ, मन्त्रिभिरपि 'यत्र जलं तत्र कर्दमं' इति ।
न्यायात् को वेत्त्यनयोः सम्यग्स्वरूपं, एवं सति राज्ञा पटहोवादितः, यः कोऽपि विवादं भनक्ति तस्य सर्वे मदीया मन्त्रिणो मिलित्वा द्रम्मलक्षमर्पिष्यन्ति,, ततो मन्त्रिपुत्रेण स्पृष्टः पटहः, प्राप्तो भूपसभां, आकारितो धूर्तः, प्राह मन्त्रिपुत्रः-भद्र ! उपलक्षितोऽसि तव पार्श्वे मया द्रम्मलक्षचतुष्टयी स्थापनिकायां मुक्ताऽस्ति, तामर्पय अत्र परमेश्वर एव साक्षी, ततो जातो विलक्षो धूर्तः, राज्ञाऽऽदेशानिष्कासितः। ततो राजाज्ञया सर्वमन्त्रिसमुदायेनार्पितं द्रम्मलक्षं ३६ गृहीत्वा मन्त्रिपुत्रः सर्वान् वयस्यान् भोजयामास । गच्छन्तश्चान्यदा महाटवीमुल्लङ्थ्य प्रान्ते कस्यापि ग्रामस्य सीम्नि वटस्याधः सायं वासार्थे स्थिताः
श्रान्ताः सुप्ताश्च। प्रथमे यामे राजसूनुर्जागर्ति स्म, तदाऽदृष्टः कोऽपि सहसा पतामीति पुनः पुनरवादीत्, भूपः प्राह-पत यथेच्छं, पुनरप्यदृष्टः कोऽपि प्रालपत्-अथोऽस्ति महान्, परमनर्थोऽपि महान्।
यतः-लोभमूलानि पापानि, रसमूलानि व्याधयः । स्नेहमूलानि दुःखानि, तान् त्यक्त्वा सुखीभव ॥१॥
राजसुनुरभाणीत् अर्थेन चेदनर्थस्तर्हि सुधया मरणं, अथवा कपूरेण चेद्दन्तपातः स्यात्तदा भवत्विति। ततः पषात नभस्तः सुवर्णपुरुषः ततो हृष्टः मापालः समुत्थाय तमदृष्टं कापि न्यधात्। एवं त्रयाणामपि स्वस्वयामेषु सुवर्णपुरुषसिद्धिजार्ता। परस्परमविज्ञाताः प्रातश्चत्वारोऽपि अर्वाग् परिभ्रमन्तो देशान्तरं गमनचेष्टां कुर्वन्त इव राजतनुतलारक्षतनयौ शस्त्रधारकत्वाद्रहस्यं मिथः कथयित्वा मिलितो, एवं मन्त्रिमहेभ्यसुतावपि मेलमाश्रितौ।
ततश्चाद्यौ स्वभाग्यैरावयोरीदृशी सिद्धिर्जाता कथमेतयोर्वणिजो गंप्रदीयते ? ततः पञ्चत्वं प्राप्येते, इतरथ मैत्र्या भागं याच्यमानौ कलहायिष्येते

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166