Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
अतीवदुःसहो जज्ञे, महाराज ! तवान्तिके ॥१३८॥ धर्मकर्मरता शुद्धशीला हि मृगसुन्दरी । अन्ते समाधिना मृत्वा, देवलोकं जगाम साह ॥१३९॥ पुण्यानुबन्धिपुण्यत्वात्, सप्तवारान्गता दिवि । तत्रापि तीर्थयात्रां सा, कृत्वाभूच्छ्राद्धनन्दिनी ॥१४०॥ तस्याः पूर्वभवाभ्यासाद्धर्मे शीले प्रह
र इदं मनः । अतोऽस्याः करसंस्पर्शात्त्वमभूःरोगवर्जितः ॥१४१॥ गुरूपदेशमाकर्ण्य, कर्णपीयूषसन्निभं । ध्वस्तसर्वभवभ्रान्तिः, जातिस्मृतिरभूत्तयोः मृगसुन्दरी ॥१४२॥ स्वं स्वं पूर्वभवं दृष्ट्वा, चानुभूतं भवे भवे । वैराग्यासक्तचेतस्की, राजारायौ बभूवतुः ॥१४३॥ प्राग्भवस्नेहसम्बन्धात्, सेयं जज्ञे तव.
प्रिया । अतीव प्रेमपात्रत्वात्, हृदयानन्ददायिनी ॥१४४॥ ततो राज्ये सुतं न्यस्य, दम्पती तौ शुभाशयौ । तस्यैव सुगुरोः पार्थे, समादत्तां व्रतं ॥७॥
स्वयम् ॥१४५॥ चिरं तप्त्वा तपस्तीनं, क्षिप्त्वा कर्मकदम्बकम् । केवलज्ञानमासाद्य, प्रोपतुः पदमव्ययम् ॥१४६॥ इत्थं चन्द्रोदयश्रेयःसम्बद्धां हि कथामिमाम् । शृण्वन्ति हि सदा भव्यास्तेषां स्युः सुखसम्पदः ॥१४७॥ ॥
कथा
इति श्रीचुल्हकोपरि चन्द्रोदयविषये मृगसुन्दरीकथा सम्पूर्णा॥)
19540000RRENESEREST

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166