Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 116
________________ ह स्वयं सिद्धान्यमूनि हि ॥५९॥ अपुण्ययोगाज्जंतूनां, जायंते धनहानयः । अनिष्टयोगा इष्टानां, वियोगाश्चाधयो रुजः ॥६०॥ ततः स्याद् । र दुःसहं दुःखं, स्यात्ततो रोदनोद्गमः । संभवेत्तक्षणादेव, स तु स्त्रीणां विशेषतः ॥६१॥ युग्मं ॥ त्वं तु गर्ववशादेवं, ब्रवीषि सुखिनी सती, 3 रोहिणी- न दुःष्यत्युदरं पार्श्व, यस्य तस्यैति च स्मितं ॥६२॥ इति भर्तुर्वचः श्रुत्वा, जगाद किल रोहिणी । इदं हि रोदनं नाथ मम नायाति ॥ ४ ॥ अशोकचन्द्र सर्वथा ॥६३॥ नास्ति मे मानसे गर्वो राज्यैश्वर्यसुखोद्भवः। न चापि हास्यवचनमनहै वदनांबुजे ॥६४॥ ततो वसुमतीपालो, बभाण निजवल्लभां। हर कथा र वामोरु सांप्रतं पश्य, रोदनं शिक्षयामि ते ॥६५॥ इत्युक्त्वा लोकपालाख्य-मुत्संगात्स्वीयमंगजं । कराभ्यां सहसोत्पाट्याधस्ताचिक्षेप भूपतिः ॥ ४ ॥3॥६६॥ तदा हाहारवश्चक्रे, राज्ञः पार्श्वस्थितैनरैः । भवेदुःखं न केषां हि, महतां विपदागमे ॥६७॥ चलन्करादयं सूनुः, पतितो हेति भूधवः। E जगौ तथापि रोहिण्या, नाभूद् दुःखं न रोदनं ॥६८॥ तावत्पतंतं तं बालं गृहीत्वा पुरदेवता । सिंहासने मुमोचाधः - स्थिते स्वयं विनिर्मिते ॥६९॥ राज्ञादिष्टा नरास्तस्मात्, स्थानादुत्तीर्य सत्वरं । ददृशुर्विलसंतं तं, हसंतं शिशुमुच्चकैः ॥७०॥ निवृत्त्य हर्षितास्तेऽथ, संयोजितकरद्वयाः। राज्ञौ विज्ञपयामासु-नंदनक्षेममुत्सुकाः ॥७॥ तत्स्वरूपं शिशोर्वीक्ष्य, विस्मिताः सौवचेतसि । अहो पुण्यमहो पुण्य, - मिति सर्वे जगुर्जनाः ॥७२॥ यतः पुण्यैः संभाव्यते पुंसा मसंभाव्यमपि क्षितौ ॥ तेरुर्मेरुसमाः शैलाः किं न रामस्य वारिधौ ॥७३॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षति पुण्यानि पुराकृतानि ॥७॥ धन्येयं रोहिणी रामा या न जानाति रोदितुं। सर्वत्र पप्रथे तस्या, इति श्लाघा जने हिता ॥७९॥ अन्यदा श्रीवासुपूज्य - जिनशिष्यौ महामुनी । रूप्यकुंभस्वर्णकुंभ, - नामानावागताविह ॥७६।। तयोरागमनं श्रुत्वा, गत्वा च सपरिच्छदः । नत्वा तौ मेदिनीपालो, निषसाद यथाविधि ॥७७॥ चतुर्ज्ञानधरो धीरो, रूप्यकुंभाभिधो as मुनिः । प्रददौ देशनां सम्यग्, जनानां हितकाम्यया ॥७८॥ यद्यथा. अस्थिरेण शरीरेण, स्थिरं धर्म समाचरेत् । प्रायेण खलु यास्यंति, as प्राणाः प्राघूर्णका इव ॥७९॥ धर्मो दुष्कर्मधर्मोघ, - तापनिर्वापणौषधं । साध्यते वपुषानेन, कूपकेनेव शर्करा ॥८०॥ नमस्कारं हारं वहत ६ हृदये कर्णयुगले, श्रुतं ताटंकाभं करकुवलयोर्दानवलयं । गुरोराज्ञां शीर्षे मुकुटमतुलं येन भविकाः, स्वयं युष्मत्कंठे क्षिपति वरमाला

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166