________________
ह स्वयं सिद्धान्यमूनि हि ॥५९॥ अपुण्ययोगाज्जंतूनां, जायंते धनहानयः । अनिष्टयोगा इष्टानां, वियोगाश्चाधयो रुजः ॥६०॥ ततः स्याद् ।
र दुःसहं दुःखं, स्यात्ततो रोदनोद्गमः । संभवेत्तक्षणादेव, स तु स्त्रीणां विशेषतः ॥६१॥ युग्मं ॥ त्वं तु गर्ववशादेवं, ब्रवीषि सुखिनी सती, 3 रोहिणी- न दुःष्यत्युदरं पार्श्व, यस्य तस्यैति च स्मितं ॥६२॥ इति भर्तुर्वचः श्रुत्वा, जगाद किल रोहिणी । इदं हि रोदनं नाथ मम नायाति ॥ ४ ॥ अशोकचन्द्र सर्वथा ॥६३॥ नास्ति मे मानसे गर्वो राज्यैश्वर्यसुखोद्भवः। न चापि हास्यवचनमनहै वदनांबुजे ॥६४॥ ततो वसुमतीपालो, बभाण निजवल्लभां। हर
कथा र वामोरु सांप्रतं पश्य, रोदनं शिक्षयामि ते ॥६५॥ इत्युक्त्वा लोकपालाख्य-मुत्संगात्स्वीयमंगजं । कराभ्यां सहसोत्पाट्याधस्ताचिक्षेप भूपतिः ॥ ४ ॥3॥६६॥ तदा हाहारवश्चक्रे, राज्ञः पार्श्वस्थितैनरैः । भवेदुःखं न केषां हि, महतां विपदागमे ॥६७॥ चलन्करादयं सूनुः, पतितो हेति भूधवः।
E जगौ तथापि रोहिण्या, नाभूद् दुःखं न रोदनं ॥६८॥ तावत्पतंतं तं बालं गृहीत्वा पुरदेवता । सिंहासने मुमोचाधः - स्थिते स्वयं विनिर्मिते
॥६९॥ राज्ञादिष्टा नरास्तस्मात्, स्थानादुत्तीर्य सत्वरं । ददृशुर्विलसंतं तं, हसंतं शिशुमुच्चकैः ॥७०॥ निवृत्त्य हर्षितास्तेऽथ, संयोजितकरद्वयाः। राज्ञौ विज्ञपयामासु-नंदनक्षेममुत्सुकाः ॥७॥ तत्स्वरूपं शिशोर्वीक्ष्य, विस्मिताः सौवचेतसि । अहो पुण्यमहो पुण्य, - मिति सर्वे जगुर्जनाः ॥७२॥ यतः पुण्यैः संभाव्यते पुंसा मसंभाव्यमपि क्षितौ ॥ तेरुर्मेरुसमाः शैलाः किं न रामस्य वारिधौ ॥७३॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षति पुण्यानि पुराकृतानि ॥७॥ धन्येयं रोहिणी रामा या न जानाति रोदितुं। सर्वत्र पप्रथे तस्या, इति श्लाघा जने हिता ॥७९॥ अन्यदा श्रीवासुपूज्य - जिनशिष्यौ महामुनी । रूप्यकुंभस्वर्णकुंभ, - नामानावागताविह
॥७६।। तयोरागमनं श्रुत्वा, गत्वा च सपरिच्छदः । नत्वा तौ मेदिनीपालो, निषसाद यथाविधि ॥७७॥ चतुर्ज्ञानधरो धीरो, रूप्यकुंभाभिधो as मुनिः । प्रददौ देशनां सम्यग्, जनानां हितकाम्यया ॥७८॥ यद्यथा. अस्थिरेण शरीरेण, स्थिरं धर्म समाचरेत् । प्रायेण खलु यास्यंति, as प्राणाः प्राघूर्णका इव ॥७९॥ धर्मो दुष्कर्मधर्मोघ, - तापनिर्वापणौषधं । साध्यते वपुषानेन, कूपकेनेव शर्करा ॥८०॥ नमस्कारं हारं वहत ६ हृदये कर्णयुगले, श्रुतं ताटंकाभं करकुवलयोर्दानवलयं । गुरोराज्ञां शीर्षे मुकुटमतुलं येन भविकाः, स्वयं युष्मत्कंठे क्षिपति वरमाला