SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॥ ३ ॥ 3 इति तद्वचनं श्रुत्वा, रोहिण्युत्फुल्ललोचना । प्रत्येकं भूपतीनुचै-र्वीक्षते स्म दृशा स्वयं ॥३८॥ अन्यानशेषभूपालान्, मुक्त्वा सा वरमालिकां। E अशोकचंद्रभूपस्य, कंठे चिक्षेप दक्षहृत् ॥३९॥ कन्यापित्रा ततो भक्त्या, सत्कृता वसनादिभिः । विसृष्टाश्च नृपाः सर्वे, जग्मुः स्वान् विषयान् र रोहिणी- प्रति ॥४०॥ मघवाख्यो महीभर्ता, शुभलग्नेऽथ सोत्सवं । अशोकचंद्ररोहिण्यो-विवाहं विधिना व्यधात् ॥४१॥ आश्वीयं हास्तिकं चारु- अशोकचन्द्र हा भूषणानि मणीनपि । जामातुः श्वशुरः प्रादात्करमोचनपर्वणि ॥४५।। अथाशोकनृपस्तत्र, परिणीय नृपांगजां । तस्थिवान् कतिचिद् घम्रान्, कथा समोदं श्वशुराग्रहात् ॥४३॥ अन्येयुर्जननी पुत्री विनयावनतामवक् । प्रोच्यमानां मया भद्रे ! हितशिक्षां शुभां श्रृणु ॥४४॥ पत्यौ प्रीतिमती ॥ ३ ॥ रक्ता, भक्तौ देवेषु साधुषु । विरक्ता दर्शनेऽन्येषां, नृणां भूयाश्च रागतः ॥४९॥ पत्यादिभिः शिक्षिता त्वं, मा काषीं: कर्हिचित्क्रुधं ॥ ER दुःखे सत्यपि दीनत्वं, विषादं च विशेषतः ॥४६॥ गुणेष्वेवादरः कार्यः, कलानां शिक्षणे तथा । अर्हत्प्रणीतधर्मे च, विद्यायां विनये 5 नये ॥४७॥ क्षमावती सुतवती, भूयाः सतीमतल्लिका । शास्त्रोदितं वधूकृत्यं, कुर्याः सकलमादरात् ॥४८॥ तथाहि शय्योत्पाटनगेहमार्जनपयःपावित्र्यचुल्लीक्रिया स्थालीक्षालनधान्यपेषणभिदो गोदोहतन्मंथने ॥ पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, PM श्वश्रूभर्तृननांदृदेवृविनयाः कृत्यानि वध्वा इति ॥४९॥ जनन्याभिहितां शिक्षा, प्रतिपेदे तथेति सा। हितैषिणा हि गुरुणा, शिष्यो विनयवानिव ॥५०॥ अथ श्वशुरमापृच्छ्य, समादाय प्रियां निजां । अशोकचंडो नृपतिः, स्वपुरं सैन्ययुग्ययौ ॥५१॥ सहस्रनेत्रः शच्येव, रत्येव रतिवल्लभः । सार्धं दयितया भूपो, विललास यथासुखं ॥५२॥ क्रमाच्चतुष्कं पुत्रीणामष्टौ च प्रवराः सुताः । संजज्ञिरे हि रोहिण्याः, सुरूपाः शुभलक्षणाः ॥५३॥ सप्तभूमिकसत्सौध-गवाक्षस्थेन भूभृता । लोकपालाभिधः पुत्रो-ऽन्यदोत्संगे निवेशितः ॥५४॥ तस्मिन्नवसरे काचि-दत्यासन्नगृहस्थिता as। मृतस्वपुत्रदुःखेन, रुरोद भृशमंगना ॥५५॥ महीभर्तुः समीपस्था, राज्ञी श्रीरोहिणी तदा। तां स्त्रियं रुदतीं वीक्ष्य, प्रोचे प्राणप्रियं निजं ॥५६॥ कं हि रागं करोत्येषा. षट्सु रागेषु धीमती । चित्रकृन्नाटकं किं वा, विचित्राभिनयान्वितं ॥५७।। स्मित्वा मनाग्महीपालः, &s स्वप्रियामवदच्छुभे । इदं हि रोदनं लोके, को न जानाति देहभृत् ॥५८॥ रोदनं हसनं कामक्रीडा भक्षणमीक्षणं । गमनं शयनं निद्रा as NJANUA
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy