SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ॥ २ ॥ ET लक्ष्मीर्लक्ष्मीरिवांगिनी ॥१३॥ तयोः सुतानामष्टाना-मुपर्येकाभवत्सुता । नाम्ना हि रोहिणी ख्याता, पित्रोरत्यंतबल्लभा ॥१४॥ चतुःषष्टिकलापात्रं, 3 । रतिरूपा प्रियंवदा । नयमार्गरता चारु-लावण्यरसनिम्नगा ॥१५॥ सारंगशावनयना, नयनानंददायिनी । स्त्रीजनेषु शिरोरत्नं, विज्ञानधनसेवधिः रोहिणी- ॥१६॥ स्त्रीजातित्वेन विहित-पक्षपाता गिरा किमु । चंचत्कांचनगौरांगी, तनुमध्या पिकस्वरा ॥१७॥ सर्वस्यापि कुटुंबस्य, मान्यालादकरी अशोकचन्द्र ह च सा । स्तोकं हि वस्तु मिष्टं स्यादिति लोकोऽपि भाषते ॥१८॥ चतुर्भि; कलापकं ॥ शोभनं यौवनं प्राप्तां, तां सुतां वीक्ष्य भूमिपः। ६ कथा मघवाख्यवकारौचै-स्तत्स्वयंवरमंडपं ॥१९॥ प्रेषयित्वा ततो दूता-नाहूतास्तेन भूरिशः । राजानो राजपुत्राश्र, रूपनिर्जितमन्मथाः ॥२०॥ ॥ २ ॥ अंगवंगकलिंगांध्रजालंधरमरुस्थलाः । लाटभोटमहाभोट, मेदपाटविराटकाः ॥२१॥ गौडचौडमहाराष्ट्र, सौराष्ट्रकुरुगुर्जराः । आभीरकीरकाश्मीर, ET गोलपंचालमालवाः ॥२२॥ हूणचीणमहाचीण, कच्छकर्णाटकुंकणाः । सपादलक्षनेपाल-कन्यकुब्जककुंतलाः ॥२३॥ मगधानिषधासिंधु, SE विदर्भद्रविडोंद्रकाः । इत्याद्यनेकदेशेभ्यस्तत्राजग्मुर्नृपोत्तमाः ॥२४॥ ते सर्वे सुंदराकाराः, श्रृंगाररसभाजनं । मंचानुच्चानलंचक्रु-र्विमानानीव नाकिनः ॥२५॥ शुभेऽह्नि श्वेतवसना, स्नाता कृतविलेपना । महाघभूषणधरा. कज्जलांकितलोचना ॥२६॥ समग्रयूनां चित्तानि, सहसा पश्यतोहरा । अतिप्राज्ञसखीवर्गा-नुगता विकसन्मुखी ॥२७॥ नृवाह्यवाहनारूढा, सुरीव धरणीगता । समागाद्रोहिणी कन्या तं स्वयंवरमंपपं ॥२८॥ त्रिभिर्विशेषकं ॥ भूपानां नामगोत्रेषु; विज्ञा विज्ञातमानसा । पुरोभूय जगादोचैर्वेत्रिणी रोहिणीं प्रति ॥२९॥ सिद्धप्रशस्यशस्यानां, मालवानामसौ प्रभुः। विवेकनय नैपुण्यपूर्णाऽयं गुर्जराधिपः॥३०॥ कदल्यादिफलास्वादविज्ञः कुंकणराडयं । शत्रुजयाद्रिविभ्राजि-सौराष्ट्रभूपतिस्त्वयं ॥३१।। अयं हि चित्रकूटाद्रि-विलसन्मेदपाटराट् । संद्रत्नकंबलोल्लासिनेपालानामसौ पतिः ॥३२॥ प्रौढकोटिशिलाशालिमगधानामसौ विभुः । अयमबुंदतीर्थोद्य-न्मरुस्थलमहीपतिः ॥३३॥ असौ तु शारदापादन्यासकाश्मीरदेशराट् । अयं हि मत्तमातंगकलिंगविषयाधिपः ॥३४॥ असौ As चारुगुणश्रेणी/तशोकनृपत्मजः । नाम्ना ह्यशोकचंडाख्यो, भूपतिर्भूरिभूतिभृत् ॥३५॥ सपादलक्षदेशेशः, श्रीमगपुरस्थितिः । युवा न्यायरतो ES धीमान्, विख्यातो भूतलेऽखिले ॥३६॥ युग्मं ॥ इत्याद्यखिलभूपेषु, यस्ते चेतसि रोचते। वरस्तमेव भो भद्रे ! वृणु वीक्ष्य विशेषतः ॥३७॥
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy