SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कथा ॥ अहम्॥ ॥ श्री प्रेम-भुवनभानु-पम-सदगुरुभ्यो नमः ॥ रोहिणीअशोकचन्द्र (॥श्री रोहिणी - अशोकचन्द्रकथा.॥ (श्री कनककुशलविरचिता.) ___ श्रीमान् पार्श्वजिनः सर्वा, - भीष्टसिद्धि विधायकः । भव्यानां भूतये भूया, - त्तमालश्यामलद्युतिः ॥१॥ कवीनां जननी नित्यं, र पुस्तकन्यस्तहस्तका। मरालवाहना देवी, शारदा वरदास्तु मे ॥२॥ नत्वा विद्यागुरुं प्राणि, - प्रतिबोधैक हेतवे । तपसि श्लाघिते सद्भिः, प्रोच्यते रोहिणीकथा ॥३॥ शक्यते तत्तपः कर्तुं , केनचिद्वीरचेतसा । बंभज्यते यदस्थीनि, मदमत्तोरुदंतिनः ॥४॥ यस्माद्भवंति विविधा, 3 लब्धयश्चारुसिद्धयः । क्षयश्चाशेषपापानां, कः स्तवीति न तत्तपः ॥५॥ रूपं सौभाग्यसंयुक्तं, शरीरं ब्याधिवर्जितं । सर्वत्र विस्तृता कीर्ति - स्त्रिजगज्जनमान्यता ॥६॥ ललना कमनीया च, सुताः सविनया धनं । इहेति निश्शेषजनै-र्गीयते तपसः फलं ॥७॥ युग्मं ॥ यतः ET- यद् दूरं यद् दुराराध्यं, यच्च दूरे व्यवस्थितं । तत्सर्व तपसा साध्यं, तपो हि दुरतिक्रमं ॥८॥ प्रवर्त्तते यस्तपसि, शोकस्तस्य कदापि न । रोहिण्या इव विश्वेऽस्मिं-स्तत्कथाथ प्रतन्यते ॥९॥ जंबूद्वीपस्य भरत-क्षेत्रे शस्यधिबंधुरे । अंगदेशोऽस्ति विख्यातो, देशानामादिमः क्षितौ ॥१०॥ ईतिभीतिविनिर्मुक्ता, सन्नीतिविहितोदया । तत्रासीद्विगताकंपा, चंपाख्या प्रवरा पुरी ॥११॥ श्रीवासुपूज्यतीर्थेश-तनयस्तत्र नीतिवित् । माघवाख्यऽभवद्राजा, प्रजापालनतत्परः ॥१५॥ सदा सदाचारपरा, जनमान्या पतिव्रता । तस्याभवत् प्रिया नाम्ना,
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy