Book Title: Jain Katha Sangraha Part 01
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 29
________________ ॥६॥ * भूस्पृशां पुंसां, विद्यामन्त्रादिकं विना । अयाहं क्रीडया तत्र, गतो दयितया सह ॥७८॥ चारणश्रमणी तत्र, सहकारतरोस्तले । तप्यमानौ * तपस्तीनं, दृष्टौ ज्ञाननिधी मया ॥७९॥ ज्यायसा विजनं ज्ञात्वा, पुरः प्रोचे लघीयसः । प्रभावः सहकारस्य, तस्य विश्वाद्भुतस्तदा ॥८॥ पक्वैरस्य फलैर्जग्धैः, राज्यं पञ्चदिनान्तरे। अपक्वैरापदः पञ्च, प्राप्य चाप्नोति मानवः ॥८॥ यः कश्चित् सत्त्ववान् मर्त्यः, शिरश्छित्त्वैनमर्चयेत्। दत्ते तस्मै सुरस्तुष्टः, पक्वापक्वे फले पुनः ॥८॥ सुप्रभावतः सोऽपि, सज्जमौलिः पुनर्भवेत्। तन्महात्म्यमिति प्रोच्य, यथायातं मुनी गतौ' पालगोपाल ॥८३॥ एतद्विद्याभृतैकेन, निकुञ्जस्थेन शुश्रुवे । विधाय साहसं तेन, स्वशीर्षणार्चितस्तरूः ॥८४॥ आम्राधिष्ठायकस्तस्मै, ददौ तुष्टः फलद्वयम्। कथा A सज्जीकृत्य शिरस्तस्य, तिरोधत्त क्षणेन सः ॥८५॥ इतश्च खेचरः कोऽपि, तद्वैरी तत्र चागमत् । द्वयोर्युद्धं ततो जज्ञे, फलग्राही मृतस्तदा ॥१॥ ॥८६॥ वैरिणा खङ्गमुद्रादि, गृहीतं तस्य मत्सरात् । प्रवाहितं वपुर्वाधों, फले तत्रैव पेततुः ॥८७॥ तत्फलद्वन्द्वमादाय, तत उड्डीय चाधुना। EW अत्रागत्योपकाराय, युवयोः पुनरर्पितम् ॥८८॥ उक्त्वेति फलमहात्म्यं, तावुड्डीनौ खगौ प्रगे। प्राप्याम्रफलयुग्मं तु, पालोऽप्येवं ब्यचिन्तयत् W॥८॥ एकतो दुरवस्थेय-महो अस्माकमीदशी । अन्यतः पुनरैश्वर्य-दायकाम्रफलागमः ॥९०॥ भाग्यैर्जागरितं नून-मस्माकं कथमन्यथा। ईदक्षफलयोः प्राप्तिःर्भाग्यहीनैर्दुरापयोः ॥९१॥ अथ प्रभाते सज्जाते, पुरतः प्रस्थितौ सरः । आसाय देहशौचादि, कृत्वा तत्तीरमागतौ ॥१२॥ वल्लभत्वेन पक्कानं, गोपालाय प्रदत्तवान् । अपकं तु स्वयं पाल-कुमारो बुभुजे ततः ॥९३॥ मध्यरात्रे प्रबुद्धोऽथ, पालः क्वापि वनेऽन्यदा । सोमार्यमाणनराक्रन्द, शुश्रावातिसुदुःश्रवम् ॥९॥ आतंत्राणकरः कश्चि-दस्ति वीरशिरोमणिः । मात ! मेदिनि ! यः पाति, मामवीराऽसि वा किमु ? ॥९५॥ श्रुत्वेति साहसी शब्दा-नुसारेण प्रधावितः । पालोऽपश्यदहिग्रस्तं, भेकमेकं प्रलापिनम् ॥९६॥ उवाच मुश्च नागेन्द्र !, भेकमेनं विलापिनम् । जीवरक्षाभवं पुण्य-मगण्यं ते भविष्यति ॥९७॥ जजल्प सर्पः किं पापं, बुभुक्षार्ता न कुर्वते । भ्राताः पाल ! यतो जीवा, धर्मकर्म *स्मरन्त्यपि ॥९८॥ बलादादास्यते भेक-स्त्वया यदि दयावता । मरिष्यामि क्षुधातॊऽहं, किं पुण्यं भावि तत्तव ॥९९॥ वापिकां कारयेद्यो हि, *पातयित्वा सुरालयम् । नरस्य तस्य किं पुण्यं, भवतीति विचारय ॥१०॥ आलपत् कृपयोत्तालः, पालः कालभुजङ्गमम् । तथापि दीनं मुक्त्वैनं, *

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166