________________
॥७॥
* . इतवारामिकाःसर्वे, तस्मै नूतनभूभुजे। विचित्रपुष्पमाल्यानि, प्राभृतीचक्रिरे मुदा ॥१२१॥ श्रुत्वा नवं नृपं पालो, दध्यौ नूनं ममानुजः।
मन्नाम ख्यापयत्येष, मद्भक्त्या भूपतिरभूत् ॥१२२॥ इतवारामिकः सोऽपि, राजाप्राभृतकार्यकम् । पुष्पाण्यानीय चित्राणि, गृहे मुक्त्वा ययौ * *कचित् ॥१२॥ स्वज्ञापनचिकी: पालो माल्यं जग्रन्थ तैः सुमैः । स्वपितृमातृनामादि-गर्भसन्दर्भभासुरम् ॥१२४॥ अपूर्वरचनं माल्यं, वीक्ष्य
अ हृष्टोऽथ मालिकः । गत्वा नत्वार्पयामास, भूवासवकरामुजे ॥१२५॥ स्वपित्राद्यभिधां वीक्ष्य, श्मापतिर्विस्मितो जगौ । केनेदं गुम्फितं भद्र ! पालगोपाल स प्राहातिथिना प्रभो ! ॥१२६॥ दध्यौ राजा मम ज्यायान्, माल्यकर्ता स निश्रितम्, यतो न्यस्येद्दशी नास्ति, कला सकलभूतले ॥१२७॥
कथा ध्यात्वेति सुचिरं तस्मै, तुष्टो द्रव्यं ददौ बहु। मालिकोऽपि गृहं गत्वा, निजचित्ते ब्यचिन्तयत् ॥१२८॥ यदार्पितं मया माल्यं, निभाल्य सुचिरं ॥७॥ तदा । केनेदं गुम्फितमिति, सनिःश्वासं नृपोऽवदत् ॥१२९॥ अयं राज्ञो द्विषन् भावी, कश्चिनिष्कासयाम्यतः। अज्ञातकुलशीलानां, न देया
वसतिर्यतः ॥१३०॥ ततोऽपमानितस्तेन, पालो गेहाद्विनिर्ययौ। इतश्च भूभुजा प्रेषि, दासी मालिकमाहसा ॥१३१।। स माल्यकारको भद्र ! कागात् स उचे न वेम्यहम् । नैकत्र स्थायिनो भद्रे !, वैदेशिकनरा यतः ॥१३२॥ तया च भूभुजे प्रोक्तं, सोऽगान ज्ञायते कचित् । ततो गवेषितो राज्ञा, सर्वत्र नगरान्तरे ॥१३३॥ न लब्धः स यदा कापि, वियोगार्तेन भूभुजा । अभिग्रहा अगृह्यन्त, तदैवं भ्रातृभक्तितः ॥१३॥ क्रीडया न वने गम्यं, शयनीयं न मञ्चके । तावदाज्यं न भोक्तव्यं, यावन्नति ममाग्रजः ॥१३५।। इतश्च पालस्तत्रैव, धनदत्तस्य वेश्ममि, सांयात्रिकमहेभ्यस्या-ऽश्ववाणिज्यकृतो ययौ ॥१३६॥ भुजिष्यत्वेन तत्रास्था-द्रञ्जयन् श्रेष्ठिनं गुणैः । सोऽपि सञ्जातविश्वासः, कोशाध्यक्षं तमातनोत् ॥१३७॥ यियासुः सिंहलद्वीपं, धनदत्तोऽन्यदा वणिक् । भाण्डानि तुरगांश्चासौ, प्रगुणीकृतवान् गुणी ॥१३८।। प्रपूर्य * यानपात्राणि, धनदत्तोऽधिरूढवान् । सपालो दिवसैः स्तोकैः, सिंहलद्वीपमाप च ॥१३९॥ स सर्व भाण्डमुत्तार्य, पालं मुक्त्वा तदन्तिकम् ।*
स्वयं नगरमध्येऽगाद्, व्यवसायकृते सुधीः ॥१४०॥ व्यवसायमथाधाय, भाण्डैः पोतान् प्रपूर्य च । प्रस्थानाभिमुखं पालः, श्रेष्ठिनं तं जगाविति **॥१४१॥ पुरि स्वामिन् ! यियासामि, कौतुकालोकनेच्छया । सोऽप्यूचे ब्रज वीक्षस्व, त्वरितं पुनराव्रजेः ॥१४२॥ पालोऽपि पुरमालोक्य, *