SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॥६॥ मन्मासैः सुहितो भव ॥१०॥ मुक्त्वा भेकं ततो व्यालः, पालं पलमयाचत । सोऽपि तस्मै स्वजङ्घात-श्छित्वा छित्वा ददौ मुदा ॥१२॥ बहुमांसप्रदानेऽपि, न तृप्यति फणी यदा । कल्पयित्वा वपुस्तस्मै, पालस्तत्पुरतः स्थितः ॥१०३।। सर्परूपं विमुच्याथ, प्रादुरासीत् सुरस्तदा। तुष्टाव सत्त्वसन्तुष्टः, पालमेवं पुनः पुनः ॥१०४॥ परमाणैर्निजप्राणान्, सर्वे रक्षन्ति जन्तवः । निजप्राणैः परमाणा-नेक एव भवान् पुनः ॥१०५॥ परोपकारिधौरेय-स्त्वत्समो न जगत्त्रये । भाग्यवान् सत्त्ववांश्चेति, परीक्षेयं कृता मया ॥१०६॥ स्मर्त्तव्योऽहं महाभाग !, भवता कापि । पालगोपाल सङ्कटे । इति प्रोच्य गतो देवः, स्वस्थानं सर्परूपभाक् ॥१०७॥ एवं मण्डूकदेवोऽपि, स्तुत्वा दत्त्वा वरं गतः । पालो गोपालपार्श्वेऽगा-द्विभाता कथा च विभावरी ॥१०८॥ ताम्रलिप्ती पुरीं प्राप्तौ, मुक्त्वोद्याने लघु ततः । ज्यायान् प्राज्याय भोज्याय, पुरान्तः प्रविवेश सः ॥१०९॥ ॥६॥ इतश्चैतत्पुरीराजा, निःपुत्रः पञ्चतां गतः । पञ्चदिव्यस्ततो राज्यं, गोपालाय तदा ददे ॥११०॥ किं नाम भवतः स्वामि-निति पृष्टे च मन्त्रिभिः । ज्यायानेवार्हति प्राज्यं, भ्राता राज्यमिदं ततः ॥१११॥ तन्नामैव जने ख्याति, लभुतामिति चिन्तयन् । स्वभ्रातृभक्त्या प्रोवाच, स्वाभिधां पाल इत्यसौ ॥११२॥ युग्मम् ॥ स पाल इति विख्यातो, मन्त्रिसामन्तसंयुतः। आरूढः सामजस्कन्धं सोत्सवं नगरेऽविशत् ॥११३॥ ताम्रलिप्तीपुरीदेशं, स शशास विशांपतिः । प्रयाता यत्र तत्रापि, सुखिनो भाग्यशालिनः ॥११॥ इतः पालकुमारोऽपि, गृहीत्वा भोजनं पुरात् । जवात् तत्र वने प्राप्तो, नापश्यनिजबान्धवम् ॥११५॥ ततो विलोकयामास, कानने सकलेऽपि सः । काप्यदृष्ट्वाऽपतद् भूमौ, मूर्छामूच्छितमानसः॥११६॥ सतावता तद्वनस्वामी, मालाकारः समाययौ । हृढं बध्वा हतस्तेन हतः स्तेनोऽयमिति शङकया ॥११७॥ प्रहारवेदनानष्टमूर्छनः पाल आलपत् । और आः किमेतत् कृतं भद्र !, दुःखं बह्वपि मे पुरा ॥११८॥ सुरूपामाकृतिं दृष्ट्वा, तदीयां सौम्यतामपि । किमकारि मया हा धिङ्, मालिको * विषसाद सः ॥११९।। अभ्यर्थ्य स्वगृहे नीत्वा, तेन पालः पटूकृतः। इयं पालकुमारस्य, विपज्जाता किलादिमा ॥१२०।-।। इति प्रथमा विपत् ।। १. हाथी
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy