________________
॥६॥
मन्मासैः सुहितो भव ॥१०॥ मुक्त्वा भेकं ततो व्यालः, पालं पलमयाचत । सोऽपि तस्मै स्वजङ्घात-श्छित्वा छित्वा ददौ मुदा ॥१२॥ बहुमांसप्रदानेऽपि, न तृप्यति फणी यदा । कल्पयित्वा वपुस्तस्मै, पालस्तत्पुरतः स्थितः ॥१०३।। सर्परूपं विमुच्याथ, प्रादुरासीत् सुरस्तदा। तुष्टाव सत्त्वसन्तुष्टः, पालमेवं पुनः पुनः ॥१०४॥ परमाणैर्निजप्राणान्, सर्वे रक्षन्ति जन्तवः । निजप्राणैः परमाणा-नेक एव भवान् पुनः
॥१०५॥ परोपकारिधौरेय-स्त्वत्समो न जगत्त्रये । भाग्यवान् सत्त्ववांश्चेति, परीक्षेयं कृता मया ॥१०६॥ स्मर्त्तव्योऽहं महाभाग !, भवता कापि । पालगोपाल सङ्कटे । इति प्रोच्य गतो देवः, स्वस्थानं सर्परूपभाक् ॥१०७॥ एवं मण्डूकदेवोऽपि, स्तुत्वा दत्त्वा वरं गतः । पालो गोपालपार्श्वेऽगा-द्विभाता
कथा च विभावरी ॥१०८॥ ताम्रलिप्ती पुरीं प्राप्तौ, मुक्त्वोद्याने लघु ततः । ज्यायान् प्राज्याय भोज्याय, पुरान्तः प्रविवेश सः ॥१०९॥ ॥६॥ इतश्चैतत्पुरीराजा, निःपुत्रः पञ्चतां गतः । पञ्चदिव्यस्ततो राज्यं, गोपालाय तदा ददे ॥११०॥ किं नाम भवतः स्वामि-निति पृष्टे च मन्त्रिभिः ।
ज्यायानेवार्हति प्राज्यं, भ्राता राज्यमिदं ततः ॥१११॥ तन्नामैव जने ख्याति, लभुतामिति चिन्तयन् । स्वभ्रातृभक्त्या प्रोवाच, स्वाभिधां पाल इत्यसौ ॥११२॥ युग्मम् ॥ स पाल इति विख्यातो, मन्त्रिसामन्तसंयुतः। आरूढः सामजस्कन्धं सोत्सवं नगरेऽविशत् ॥११३॥ ताम्रलिप्तीपुरीदेशं, स शशास विशांपतिः । प्रयाता यत्र तत्रापि, सुखिनो भाग्यशालिनः ॥११॥ इतः पालकुमारोऽपि, गृहीत्वा भोजनं पुरात् । जवात् तत्र
वने प्राप्तो, नापश्यनिजबान्धवम् ॥११५॥ ततो विलोकयामास, कानने सकलेऽपि सः । काप्यदृष्ट्वाऽपतद् भूमौ, मूर्छामूच्छितमानसः॥११६॥ सतावता तद्वनस्वामी, मालाकारः समाययौ । हृढं बध्वा हतस्तेन हतः स्तेनोऽयमिति शङकया ॥११७॥ प्रहारवेदनानष्टमूर्छनः पाल आलपत् । और आः किमेतत् कृतं भद्र !, दुःखं बह्वपि मे पुरा ॥११८॥ सुरूपामाकृतिं दृष्ट्वा, तदीयां सौम्यतामपि । किमकारि मया हा धिङ्, मालिको * विषसाद सः ॥११९।। अभ्यर्थ्य स्वगृहे नीत्वा, तेन पालः पटूकृतः। इयं पालकुमारस्य, विपज्जाता किलादिमा ॥१२०।-।। इति प्रथमा विपत् ।।
१. हाथी