________________
॥८॥
* कौतुकप्रीणितेक्षणः । रूपमीनध्वजो मीन- ध्वजप्रासादमासदत् ॥१४३॥ पलायध्वं पलायध्व-मिति कोलाहले सति । किमेतदिति पालेन, पृष्टः *कामार्चको जगौ ॥१४४॥ सिंहलेशनरेशस्य, कलानां सनिवेशनम् । विशारदा धनुर्वेदे, सुता सौभाग्यमञ्जरी ॥१४५॥ मयैकमुष्ट्या मुक्तां यत्रिवाणी सहते मम । स भर्तेति प्रतिज्ञाय, कामार्चायै समेत्यसौ ॥१४६॥ दृष्ट्वा दृष्ट्वा नरं बाणान्, मुश्चत्येषाऽनिवारितम् । जनेऽपसार्यमाणे
तहासीभिस्तुमुलध्वनिः ॥१४७॥ न स्थेयं च त्वयाप्यत्र, गतः प्रोच्येति पूजकः । निर्भयः कौतुकं द्रष्टुं, पालस्तत्रैव तस्थिवान् ॥१८॥ पालगोपाल पालमालोक्य सा बाला, त्रीन् बाणानक्षिपत् क्षणात् । सोऽपि तान् प्रतिजग्राह, हस्ताभ्यामाननेन च ॥१४९।। तस्यालोक्य कलां बाला, रूपं कथा
चाप्यनुरागिणी। मनोज पूजयित्वा च, जगाम निजमालयम् ॥१५०॥ ज्ञात्वेति भूभुजाहूतः, पालो राजसभं गतः । विशालावासिनाऽथासौ, * ॥८॥
मागधेनोपलक्षित; ॥१५॥ नामवंशादिकं तस्य, पृष्टोऽवोचन्महीभुजे । अर्द्धराज्यं सुतां चादात्, सोऽपि पालाय सोत्सवम् ॥१५२॥ विवाहानन्तरं भूप-मापृच्छ्य स समं तया । समारोप्य निजां लक्ष्मी, यानपात्रेषु भूरिषु ॥१५३॥ आरुरोह स्वयं पोत-मेकं दयितया युतः । अचालीच्छ्रेष्ठिना साकं ताम्रलिप्तां पुरीं प्रति ॥१५४॥ तद्भार्याद्रव्यलुब्धेन, धनदत्तेन सोऽन्यदा । निशि पोतान्तर्विश्रान्तः, क्षिप्तः पाथोधिपाथसि ॥१५५॥ तद्भार्या विलपन्ती सा, प्रोचे कामान्धचेतसा । शुचं मुश्च प्रिये ! भोगान्, मुंश्व दासोऽस्म्यहं तव ॥१५६॥ इति तद्वचनं श्रुत्वा र वज्रपातसहोदरम् । तद्बोधाय जगौ साध्वी, वचः सौभाग्यमंजरी ॥१५७।। वरमात्मा हुतो बह्मी, वरं गरलमासितम् । न परं नरकप्राप्तिहेत्वन्यवनितागमः ॥१५८॥ उक्तं च- "प्राणसन्देहजननं, परमं वैरकारणम् । लोकद्वयविरुद्धं च, परस्त्रीगमनं त्यजेत् ॥१५९।। भूपस्त्रीभृशलम्पटो धनवणिक्पुत्रः स राज्ञो भयात्, कूपेऽक्षेपि तया पुरीषनिचिते मासं नवात्र स्थितः । सौरभ्यादिसुखोचितः स्मरवशाल्लब्धो दशां ताइशी, तामीहे * न गृहं गतः पुनरसौ धिग्धिक् परस्त्रीरतान् ॥१६०।। सौदर्य हतवान्नृपो मणिरथस्तबल्लभालिप्सया, भ्रष्टा साऽथ करात् स्वयं च नरकं सर्पण इष्टो ययौ । हानिः स्वस्य जनस्य हास्यमथवा देहान्यवाणीफलं (१) का कस्यास्यजरामरत्वमपिनो यद्वा न किं किं स्मरात् ॥१६॥ प्रद्योतेन