SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ॥८॥ * कौतुकप्रीणितेक्षणः । रूपमीनध्वजो मीन- ध्वजप्रासादमासदत् ॥१४३॥ पलायध्वं पलायध्व-मिति कोलाहले सति । किमेतदिति पालेन, पृष्टः *कामार्चको जगौ ॥१४४॥ सिंहलेशनरेशस्य, कलानां सनिवेशनम् । विशारदा धनुर्वेदे, सुता सौभाग्यमञ्जरी ॥१४५॥ मयैकमुष्ट्या मुक्तां यत्रिवाणी सहते मम । स भर्तेति प्रतिज्ञाय, कामार्चायै समेत्यसौ ॥१४६॥ दृष्ट्वा दृष्ट्वा नरं बाणान्, मुश्चत्येषाऽनिवारितम् । जनेऽपसार्यमाणे तहासीभिस्तुमुलध्वनिः ॥१४७॥ न स्थेयं च त्वयाप्यत्र, गतः प्रोच्येति पूजकः । निर्भयः कौतुकं द्रष्टुं, पालस्तत्रैव तस्थिवान् ॥१८॥ पालगोपाल पालमालोक्य सा बाला, त्रीन् बाणानक्षिपत् क्षणात् । सोऽपि तान् प्रतिजग्राह, हस्ताभ्यामाननेन च ॥१४९।। तस्यालोक्य कलां बाला, रूपं कथा चाप्यनुरागिणी। मनोज पूजयित्वा च, जगाम निजमालयम् ॥१५०॥ ज्ञात्वेति भूभुजाहूतः, पालो राजसभं गतः । विशालावासिनाऽथासौ, * ॥८॥ मागधेनोपलक्षित; ॥१५॥ नामवंशादिकं तस्य, पृष्टोऽवोचन्महीभुजे । अर्द्धराज्यं सुतां चादात्, सोऽपि पालाय सोत्सवम् ॥१५२॥ विवाहानन्तरं भूप-मापृच्छ्य स समं तया । समारोप्य निजां लक्ष्मी, यानपात्रेषु भूरिषु ॥१५३॥ आरुरोह स्वयं पोत-मेकं दयितया युतः । अचालीच्छ्रेष्ठिना साकं ताम्रलिप्तां पुरीं प्रति ॥१५४॥ तद्भार्याद्रव्यलुब्धेन, धनदत्तेन सोऽन्यदा । निशि पोतान्तर्विश्रान्तः, क्षिप्तः पाथोधिपाथसि ॥१५५॥ तद्भार्या विलपन्ती सा, प्रोचे कामान्धचेतसा । शुचं मुश्च प्रिये ! भोगान्, मुंश्व दासोऽस्म्यहं तव ॥१५६॥ इति तद्वचनं श्रुत्वा र वज्रपातसहोदरम् । तद्बोधाय जगौ साध्वी, वचः सौभाग्यमंजरी ॥१५७।। वरमात्मा हुतो बह्मी, वरं गरलमासितम् । न परं नरकप्राप्तिहेत्वन्यवनितागमः ॥१५८॥ उक्तं च- "प्राणसन्देहजननं, परमं वैरकारणम् । लोकद्वयविरुद्धं च, परस्त्रीगमनं त्यजेत् ॥१५९।। भूपस्त्रीभृशलम्पटो धनवणिक्पुत्रः स राज्ञो भयात्, कूपेऽक्षेपि तया पुरीषनिचिते मासं नवात्र स्थितः । सौरभ्यादिसुखोचितः स्मरवशाल्लब्धो दशां ताइशी, तामीहे * न गृहं गतः पुनरसौ धिग्धिक् परस्त्रीरतान् ॥१६०।। सौदर्य हतवान्नृपो मणिरथस्तबल्लभालिप्सया, भ्रष्टा साऽथ करात् स्वयं च नरकं सर्पण इष्टो ययौ । हानिः स्वस्य जनस्य हास्यमथवा देहान्यवाणीफलं (१) का कस्यास्यजरामरत्वमपिनो यद्वा न किं किं स्मरात् ॥१६॥ प्रद्योतेन
SR No.600262
Book TitleJain Katha Sangraha Part 01
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1994
Total Pages166
LanguageSanskrit
ClassificationManuscript
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy