Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 12
________________ वाणिज्यार्थं भ्रमणं कुर्वन्ति स्म । तत्रत्यां संस्कृति कलादिसमृद्धिं चाऽत्राऽऽनयन्ति स्म, अत्रत्यां च तत्र तत्र नयन्ति स्म । अरे ! आफ्रिकीयदेशेषु वाणिज्यार्थं वसितुं गताः सर्वप्रथमं विदेशिनो गौर्जरा एव । यूरपीयास्तु ततो बहुकालान्तरं तत्र प्राप्ताः । इयं च परम्पराऽऽधुनिकैौजरैरपि अक्षुण्णतया रक्षिताऽस्ति । अद्य सर्वत्राऽपि जगति स्वीयवाणिज्यकलया गूर्जराः प्रसिद्धाः सन्ति । गूर्जरधनिकानां नामानि सम्प्रति वैश्विकसामयिकेष्वपि सादरं गृह्यन्ते । न चैतावत्, गूर्जरा वैज्ञानिकाः, सारस्वताः, विविधशाखीया विद्वज्जनाश्चाऽद्य विश्वप्रसिद्धाः सन्ति । सर्वतोऽप्यधिकं त्वेतद् यद् - गूर्जरजना मूलत एव निरुपद्रविणः, शान्ताः, दयालवः, अहिंसकाः, मिलनशीलाः, सहिष्णवः, संस्कारिणश्च सन्ति । अत्र प्रश्नोऽयं जायते यद् ईदृश्या गूर्जरप्रजायाः मूलं कुलं च कुत्र वर्तते ? इति । किन्त्वस्योत्तरं प्राप्तुमितिहासपृष्ठानि अवलोकनीयानि । विक्रमात् पूर्वं तृतीयशताब्द्यामैदम्प्राथम्येन गूर्जरप्रदेशस्य सौराष्ट्रस्य चोल्लेखाः प्राप्यन्ते मौर्यकालीनेष्वशोकादीनां शिलालेखेषु - गिरिनारपर्वतस्य तलहट्टिकायाम् । यद्यपि तदात्वे गूर्जर-इति नामोल्लेखो नाऽऽसीत् । एकतो गिरिनगरं सौराष्ट्रदेशश्च, अन्यतो वलभीसाम्राज्यं, मध्ये चाऽविकसितोऽर्धविकसितो वाऽऽनर्तप्रदेशो दक्षिणे च लाटदेश आसीत् । (उत्तरे च राजस्थानप्रदेशे मरुभूमौ श्रीमालनगरे गूर्जराणां राज्यमासीत् ।) अत्र च विक्रमस्य प्रथमशती यावन्मौर्यवंशीयानां साम्राज्यमासीत् । ततो द्वितीयात् पञ्चमं शतकं यावदत्र क्षत्रपवंशीयनृपाणां शासनमासीत् । अथ च तत्काले भिन्नमालनगरे (श्रीमालनगरे) गूर्जराणां साम्राज्यं किञ्चिदिव दुर्बलं जातम् । अतस्ते शनैः शनैः ततो निःसृत्याऽऽनर्तादिप्रदेशेषु समागतास्तत्रैव चोषिताः । इतश्च पूर्वभारते मगध-वङ्गोत्कलादिदेशेषु वारं वारं Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118