Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 109
________________ महाकामो हतो येन, महाभयविवर्जितः । महाव्रतोपदेशी च, महादेवः स उच्यते महादया दमो यस्य, महाक्षान्तिर्महातपाः । महामौनी महायोगी, महादेवः स उच्यते महावीर्यं महाधैर्यं, महाशीलं महागुणाः । महापूर्जार्हकत्वाच्च, महादेवः स उच्यते स्वयम्भूतं यतो ज्ञानं लोकालोकप्रकाशकम् । अनन्तवीर्य - चारित्रः, स्वयम्भूः सोऽभिधीयते शिवत्वाच्च जिनः प्रोक्तः, शङ्करश्च प्रकीर्तितः । कायोत्सर्गी च पर्यङ्की, स्त्रीभूषादिविवर्जितः अनाकारश्च साकारो, मूर्त्तामूर्त्तस्तथेश्वरः । परमात्मा च बाह्यात्मा, अन्तरात्मा तथैव च , परमज्ञानयोगेन, परात्मा परमव्ययः । परमक्षान्तिसहितः परमात्मा स उच्यते परमात्मा सिद्धिसम्प्राप्तौ, बाह्यात्मा तु भवान्तरे । अन्तरात्मा भवेद् देहे, इत्येष त्रिविधः शिव: सकलो दोषसंयुक्तो, निष्कलो दोषवर्जितः । पञ्चदेहविनिर्मुक्तः, सम्प्राप्तः परमं पदम् एकमूर्त्तिस्त्रयो भागा, ब्रह्म-विष्णु-महेश्वराः । तान्येव पुनरुक्तानि, ज्ञान - चारित्र - दर्शनै: कार्यं विष्णुः क्रिया ब्रह्मा, कारणं तु महेश्वरः । कार्य-कारणसम्पूर्णो, महादेवः स उच्यते प्रजापतिसुतो ब्रह्मा, माता पद्मावती स्मृता । अभीचिर्जन्मनक्षत्रं, एकमूर्तिः कथं भवेत् ? ॥११॥ ॥१२॥ ॥१३॥ ॥१४॥ ॥१५॥ ॥१६॥ 112911 ॥ १८॥ 118811 112011 ॥२१॥ ॥२२॥ Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org 100

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118