Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 111
________________ पाण्डवानां प्रव्रज्या अन्यदा पत्तने चतुर्मुखाख्यजैनेन्द्रालये व्याख्यानमद्भुतम् । श्रीनेमिचरितस्याऽ मी श्रीसङ्घाग्रे प्रतुष्टुवुः ॥ १ ॥ — * श्रीहेमचन्द्राचार्याः सुधासारवच:स्तोमाकृष्टमानसवासनाः । शुश्रूषवः समायान्ति तत्र दर्शनिनोऽखिलाः ||२|| पाण्डवानां परिव्रज्या - व्याख्याने विहितेऽन्यदा । इतरे मत्सराध्माता: व्याचख्युर्नृपतेरिदम् ॥३॥ * सिद्धराजजयसिंहस्य स्वामिन् ! पुरा महाव्यासः कृष्णद्वैपायनोऽवदत् । वृत्तं युधिष्ठिरादीनां भविष्यज्ज्ञानतोऽद्भुतम् ||४|| तत्रेदमुच्यते स्वायुः प्रान्ते पाण्डोः सुता अमी । हिमानीमहिते जग्मुर्हिमवद्भूधराध्वनि ॥५॥ श्रीकेदारस्थितं शम्भुं स्नानपूजनपूर्वकम् । आराध्य परमाभक्तिस्वान्ताः स्वान्तमसाधयन् ॥६॥ युग्मम् || 102 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118