Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 85
________________ गरेर ४. छन्दोऽनुशासनम् स्वसमयात् पूर्ववर्तिनां समेषामपि संस्कृत-प्राकृताऽपभ्रंशकाव्येषूपयुक्तानां छन्दसां समावेशस्तैरत्र कृतोऽस्ति । छन्दसां महाकोशेऽस्मिस्तैः प्रत्येकं छन्दसां शास्त्रीयं लक्षणं संस्कृतभाषायां तदुदाहरणं च यथास्वं संस्कृतादिभाषायां प्रदत्तमस्ति । अत्र च सर्वाण्यपि उदाहरणानि तैः स्वयमेव विरचितानि, न पुनः कुतश्चिदवतारितानि । अस्मिन् ग्रन्थैस्तैः सादरं भरत-पिङ्गलस्वयम्भूप्रमुखाः स्मरणविषयमानीताः सन्ति, तथा माण्डव्यः, भरतः, काश्यपः, सैतवः, जयदेवः - इत्यादयः प्राच्याश्छन्दःशास्त्रप्रणेतार उल्लिखिताः सन्ति । ५. काव्यानुशासनम् राजशेखरस्य काव्यमीमांसा, मम्मटस्य काव्यप्रकाशः, आनन्दवर्धनस्य ध्वन्यालोकः अभिनवगुप्तस्य च लोचनः - इत्येतेभ्यो ग्रन्थेभ्यो विविधां सामग्री गृहीत्वा विरचितोऽयं ग्रन्थो विदुषां मते यद्यपि सङ्ग्रहग्रन्थस्तथाऽपि अत्राऽप्याचार्याणां मौलिकता प्रतिभा चाऽक्षुण्णैव । अस्य ग्रन्थस्य विवरणं तैरलङ्कारचूडामणिविवेकश्चेति टीकाद्वयेन स्वयमेव कृतमस्ति। ६. प्रमाणमीमांसा हेमचन्द्राचार्याणां विशुद्धदार्शनिकप्रतिभा प्रोज्ज्वलतया प्रकटयत्ययं ग्रन्थः । भारतीयदर्शनविद्याया ब्राह्मण-जैन-बौद्धेतितिसृणामपि शाखानां तात्त्विकपरिभाषासु लाक्षणिकव्याख्यासु यथाक्रमं यानि विकास-वृद्धि-परिवर्तनानि जातानि तानि ग्रन्थस्याऽस्याऽध्ययनेनाऽवबुध्यन्ते । आचार्यैः स्वपूर्ववर्तिनामागमिकतार्किकाणां श्वेताम्बराणां दिगम्बराणां सिद्धसेनदिवाकरसूरिजिनभद्रगणि-समन्तभद्रा-ऽकलङ्काद्य-वादिदेवसूरिपर्यन्तानां सर्वेषामपि जैनाचार्याणां मन्तव्यानि सर्वग्राहिण्या बुद्धिशक्त्या सङ्कलय्य स्वीयया विशदयाऽपुनरुक्तया च विशिष्टशैल्या सूत्रेषु 76 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118