Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 84
________________ प्राकृतव्याकरणस्य साङ्गोपाङ्गं विरचनेन तैरुभे अपि भाषे पूर्णतयाऽनुशासिते - इत्यतस्तद्व्याकरणस्य सिद्धहेमशब्दानुशासनमित्यभिधानं सर्वथा सार्थकमस्ति । २. नामानुशासनम् - १. अभिधानचिन्तामणिनाममाला - शब्दानां महार्णवरूपेऽस्मिन् शब्दकोशे प्रायो द्विसहस्रश्लोकेषु विभागश एकस्मिन्नर्थे प्रयुक्ता नैके शब्दाः सङ्ग्रहीताः सन्ति । अस्य च कोशस्य विवरणं ह्याचार्यैः स्वयमेव विरचितमस्ति । अनेकार्थसङ्ग्रहः - अस्मिन् शब्दकोशे एकस्य शब्दस्य नैकेऽर्थाः सङ्ग्रहीताः सन्ति । निघण्टुशेषः आयुर्वेदसम्बन्धिनां वैद्यकीयानां वा शब्दानां सङ्ग्रहोऽयं तेषां सार्वत्रिकी प्रतिभा प्रमाणीकरोति । ४. देशीनाममाला - देशीभाषासु रूढानां, व्याकरणेन साधयितुमशक्यानां, प्राकृतभाषाणामभ्यासे चाऽत्यन्तमुपयोगिनां शब्दानामपूर्वः सङ्ग्रहोऽयं तेषां सूक्ष्मदर्शित्वं विविधभाषाज्ञानं लोक-व्यवहारज्ञानं च प्रमाणीकरोति । अत्र सगृहीतेषु शब्देषु बहवो द्राविड-अरब्बीय-फारसीयभाषासम्बन्धिनः शब्दा अपि सन्ति । ३. लिङ्गानुशासनम् लिङ्गानुशासनं विना शब्दानुशासनमपूर्णमेव । तामपूर्णतां दूरीकर्तुं तैविविधलिङ्गानां शब्दानां सङ्ग्रहोऽत्र कृतोऽस्ति । अत्र यावन्तः शब्दाः सन्ति तावन्तः कस्मिन्नपि लिङ्गानुशासने न सन्ति । 75 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118