Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text
________________
द्वात्रिंशद्वत्तमय एवाऽस्ति । अत्र च जैनदर्शनस्य तत्सिद्धान्तानां च महत्त्वं प्रस्थापितमस्ति । अयमपि ग्रन्थो दार्शनिकदृष्ट्या काव्यत्वदृष्ट्या चोत्कृष्ट एवाऽस्ति । १३. महादेवस्तोत्रम्
हेमचन्द्राचार्याणामुदात्तसमन्वय-- भावनाया उत्कृष्टं फलमस्त्येतन्महादेवस्तोत्रम् । चतुश्चत्वारिंशद्-वृत्तमयेऽस्मिन् स्तोत्रेः तैर्विविधान् दृष्टिकोणानुपयुज्य महादेवस्य स्तुतिर्विहिताऽस्ति ।
अथाऽऽचार्याणां मुख्यसाहित्यसृष्टेः परिचयोऽत्र प्रदत्तोऽस्ति । अन्येऽपि तेषां वेदाङ्कशादयो ग्रन्थाः सन्ति, किन्तु विस्तरभयादत्र नाऽत्र परिचायिताः ।
विद्वांसो हि महाभारतकारान् व्यासमहर्षीन् तेषां विशालग्रन्थरचनदृष्ट्या सर्वश्रेष्ठग्रन्थकारतया मन्यन्ते, तेषां च सर्वग्राहित्वं दर्शयितुं 'व्यासोच्छिष्टं जगत् सर्वम्' इति समुद्घोषयन्ति। एवमेवाऽत्राऽऽचार्याणां विशालकायं विपुलग्रन्थसमूहं दृष्ट्वा यदि "हेमोच्छिष्टं तु साहित्यम्" इति कथयेम तदा नाऽत्युक्तिः । तेषां साहित्यस्य वास्तविकं मूल्यं विविधता सर्वदेशीयता च स्तः । तैर्हि न काऽपि विद्याशाखोपेक्षिता प्रत्युत विशिष्टतया सेवितैव । तेषां प्रतिभा सार्वत्रिकी, अध्ययनं परिपूर्णं, विषयसंशोधनं च सर्वावयवि वर्तते । तेषां सङ्ग्राहकताऽप्यनन्यसाधारणाऽनुपमेया चाऽस्ति । तेषां साहित्ये तत्तद्विषयसम्बन्धिनां तत्कालज्ञातानां च प्रायः सर्वेषामपि ग्रन्थानामुद्धरणानि सन्ति । अस्मिन् क्षेत्रे तेषां प्रतिस्पर्धी न कोऽप्यस्ति । अथैवं सत्यपि तेषां मौलिकताऽक्षुण्णैव वर्तत इति तु महाश्चर्यजनकम् । अस्तु ।।
सदा हृदि वहेम श्रीहेमसूरेः सरस्वतीम् ।। सुवत्या शब्दरत्नानि ताम्रपर्णी जिता यया ।।
(कीर्तिकौमुद्यां महाकविः सोमेश्वरभट्टः)
80
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118