Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 95
________________ वधूट्योः पारिपाश्विक्यश्चतुरा नर्मकर्मणि । एवं कौतुकधवलान् गातुमारेभिरे स्त्रियः ।। (१।२।८५४ त:-) ज्वरीवाऽब्धि शोषयितुं मोदकान् परिखादितुम् । श्रद्धालुरनुवरको मनसा केन नन्वसौ ? ॥१॥ मण्डकेभ्योऽखण्डदृष्टिः कान्दुकस्येव कुक्कुरः । स्पृहयालुरनुवरो मनसा केन नन्वसौ ? ॥२॥ आजन्मादृष्टपूर्वी किं वटकान् रोरबालवत् । श्रद्धत्तेऽत्तुमनुवरो मनसा केन नन्वसौ ? ॥३॥ तोयानां चातक इव धनानामिव याचकः । पूगानां श्राद्धोऽनुवरो मनसा केन नन्वसौ ? ॥४|| ताम्बूलवल्लीपत्राणां तृणानामिव तर्णकः । श्रद्धालुरद्याऽनुवरो मनसा केन नन्वसौ ? ॥५॥ हैयङ्गवीनपिण्डस्य बिडाल इव लम्पटः । श्राद्धश्चूर्णस्याऽनुवरो मनसा केन नन्वसौ ?॥६॥ विलेपनस्य केदारकर्दमस्येव कासरः । श्रद्धां दधात्यनुवरो मनसा केन नन्वसौ ? ॥७॥ निर्माल्यानामिवोन्मत्तो माल्यानां लोललोचनः । श्रद्धानुबन्ध्यनुवरो मनसा केन नन्वसौ ? ॥८॥ हेमचन्द्राचार्यैः स्वरचितकाव्यानुशासनादिग्रन्थसमूहस्य टीकासु यानि काव्यान्युदाहरणतयोद्धर-णतया वा संदृब्धानि तेषामवलोकनेन ज्ञायते यत् ते स्वकालात् पूर्वं प्रवृत्तैः स्वसमकाले च प्रवर्तमानैः सर्वैरपि विद्याप्रवाहै: नितरां परिचिताः आसन् । तत: कानिचनाऽत्र प्रस्तुतानि - 86 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118