Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text
________________
गुरूणां हृदयगहनान्निःसृतानीमानि वचनानि श्रुत्वा रामचन्द्राचार्याः स्तब्धीभूताः । तैश्चिन्तितं - 'नूनं परमगुरूणां देवचन्द्रसूरीणां सर्वेऽपि योगाध्यात्मभाव-निःस्पृहतादिगुणाः पूज्यगुरुवर्यैर्यथार्थतया सात्मीभावमानीताः सन्ति' । ततः परं तैः कदाऽपि गुरुभ्य एतदर्थं न निवेदितम् ।
___ इतश्चैकदा कुमारपालेन गुरवो विज्ञप्ताः – 'प्रभो ! तादृशं किञ्चित् सत्कार्यं मे आदिशन्तु यत्करणेन मे पातकानि नश्येयुरात्मा पवित्रो भवेत्, मम नाम चाऽमरं भवेत्' । एवं विज्ञप्तेः श्रवणेन सर्वेऽपि सभासदश्चिन्तितवन्तः - 'नूनमते जैनाचार्या अद्य राजानं जैनधर्मस्थानमेव निर्मातुमुपदेष्यन्ति' । सर्वे तेषां वचनं श्रोतुं सकर्णीभूता आसन् । तावता गुरवो मधुरवचोभिरुक्तवन्तः - 'राजन् ! भवतः प्रपितामहस्य भीमदेवस्य शासनकाले प्रभासतीर्थे स्थितस्य सोमनाथमहादेवमन्दिरं म्लेच्छैविनाशितमस्ति । समग्रदेशवासिनो हि तथाऽपि सोमनाथमहादेवस्य दर्शन-पूजाद्यर्थं पूर्णश्रद्धया निरन्तरं तत्र समागच्छन्ति सदाऽपि । यदि भवान् पुण्यमुपार्जितुममरत्वं प्राप्तुं पातकानि च नाशयितुमिच्छति तदा सोमनाथमहादेवमन्दिरस्य जीर्णोद्धारं कृत्वा नूतनमुत्तुङ्गं विशालं चैकं महादेवालयं निर्माय तत्र महामहेन सोमनाथमहादेवं प्रतिष्ठितं करोतु । भवतः सर्वोऽपि अभिलाषः पूर्णीभविष्यति सहैव कोटिशः श्रद्धालूनां भक्तिभावस्य पुण्यमपि प्राप्स्यते' ।
__ गुरूणामुपदेशं श्रुत्वा कुमारपालोऽतीव प्रसन्नो जातः, सभासदश्च सर्वेऽपि नितरां विस्मिता जाताः। सोमनाथस्य मुख्यार्चकोऽन्ये च येऽपि जना आचार्यान् जैनेतरद्वेषिणो मन्यन्ते स्म मात्सर्यं च धरन्ति स्म तेऽपि ससन्तोषमाचार्याभिमुखा जाताः। आचार्यैश्च राजामात्य-सेनापति-नागरजनप्रमुखेभ्यः सर्वेभ्योऽपि यावत् सोमनाथमहादेवस्य प्रतिष्ठा न सम्पद्येत तावन्मद्य-मांसादीनां
50 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118