Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 62
________________ गुरुमुखाद् धर्मशास्त्राणां निरन्तरं श्रवणेनाऽन्यदा कुमारपालस्य हृदये श्रावकयोग्यानि द्वादशव्रतानि ग्रहीतुं भावना जागृता । तेन चाऽऽचार्येभ्यस्तदर्थं निवेदनं कृतम् । तैरपि तदुचितं मत्वा शुभदिने चतुर्मुख-जिनेश्वरप्रतिमासम्मुखं तस्मै विधिपूर्वकं व्रतानि प्रदत्तानि सहैव परमार्हत-इति बिरुदमपि प्रदत्तम् । ततस्तस्योद्यापनरूपेण तेन गुरूपदेशात् स्वनगरे कुमारविहारनामकं जिनमन्दिरं कुमारपालेश्वरमहादेवमन्दिरं चाऽपि निर्मापितं तत्प्रतिष्ठा च कारिता । एकदा गुरुभ्यः केनचिन्निर्धनश्रावकेण हार्दभावनया हस्तव्यूतमेकं स्थूलवस्त्रं प्रदत्तं, तच्च परिहितं गुरुभिः । तदा तत्राऽऽगतेन कुमारपालेन तद् दृष्ट्वा गुरुभ्यो विज्ञप्तं - 'प्रभो ! किमित्येतादृक्वस्त्रधारणम् ?' गुरुभिरुक्तं - 'राजन् ! अस्माकं त्वयमेव धर्मो यद् निर्दोषं वस्त्रान्न-पानादि यत्र यतो वा प्राप्यते तद् ग्रहीतव्यम् । परमत्र भवता किञ्चिच्चिन्तनीयं वर्तते यद् भवद्राज्ये एतादृशो निर्धनाः कियन्तः सन्तीति । एकतो धनवतां पार्श्वे कियद् धनमस्ति तस्य गणनैव नास्ति, अन्यतश्चैतादृशा जना अपि सन्ति ये प्रायो दिने एकवारमेव भोक्तुं कष्टेन लभन्ते । ईदृशां दुर्गतानां धारण-पोषणादि राज्ञः कर्तव्यं भवति । भवता स्वकर्तव्यं सम्यङ् निभालनीयम्' गुरूपदेशं श्रुत्वा करुणाभृतचेतसा नृपेण दीन-दुर्गतानां जीवनस्तरमू/कर्तुं पूर्णतया प्रयतितं तत्र च साफल्यमपि प्राप्तम् । एवं चाऽनेकानेकसुकृत्यकरणेन कुमारपालस्य पुण्यानि तादृक्प्रबलानि जातानि यत् तस्य शासनकाले समग्र देशे न कदाऽपि दुर्भिक्षादीनि व्यसनानि सञ्जातानि नाऽपि च मार्यादि रोगा उत्पन्ना नैव च कोऽपि दुःखितः स्थितः । एतच्च हेमचन्द्राचार्याः स्वयमेव स्वविरचितायामभिधानचिन्तामणि 53 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118