Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text
________________
चिरकालस्थायिनी । पूर्वं कृता तु प्रतिष्ठा न तथा चिरकालस्थायिनी । मन्ये दैवेच्छेयमेवाऽस्ती 'ति ।
एतादृशाः प्रसङ्गास्त्वेतेषां जीवने बहवः समायाताः किन्तु तैः सर्वदाऽपि समतया समाधिना स्वस्थतया चैव व्यवहृतम् । एष हि तेषामस्तित्वेन सहाऽऽत्मसाद्भूतानां योगाध्यात्मादीनां प्रभाव आसीत् ।
-
अथ च सिंहावलोकनेन तेषां जीवनं विलोक्येत तदा ज्ञायते यद् – निजं समग्रमपि जीवनं तैर्नित्यनूतनसाहित्यसृष्टौ श्रुतोपासनायां च व्ययितम् । सहैवाऽन्तर्मुखताया योगाध्यात्मादीनां च साधनाऽपि निरन्तरं प्रवर्तमानाऽऽसीत् । तेषां ध्येयमासीत् भवबीजाङ्करजनकानां रागादीनां नाशः । तदर्थमेव च जीवनस्य प्रतिक्षणं प्रयतितं तैः । तेन च तेषां जीवनस्य प्रत्येकं क्षण: शुद्धानन्देन सात्त्विकप्रसन्नतया चैव व्यतीतः । तेषां संयमे साधुजीवने नित्यक्रियासु च तादृशं शौर्यं पराक्रमश्चाऽऽसीत् यादृशं
I
पूर्वरणरसेन शत्रुणा सह युध्यमानस्य शूरयोधस्य कस्यचित् स्यात् । तैर्हि स्वीयामोघवाचा प्रायः सार्धलक्षं जनाः जैनधर्ममङ्गीकारिताः । एतादृशलोकसङ्ख्याबलेन ते हि कञ्चन नूतनसम्प्रदायं स्वकीयं गच्छं वा संस्थापयितुं समर्था आसन् । किन्तु तदर्थमावश्यकी महत्त्वाकाङ्क्षा तेषां नाऽऽसीत् नाऽपि च क्षुद्रता तुच्छता च । ते तु सर्वथा समत्ववन्तः स्थितप्रज्ञा विरागिनो ज्ञानिनश्चाऽऽसन्, ततश्च तेषां जीवने तादृश्येकाऽपि प्रवृत्तिर्न विलोक्यते यया स्वल्पमपि चित्तदौर्बल्यं प्रकटीभवेत् । तेषां जीवनसार्थक्यं त्वेकमेवाऽऽसीत् - स्व- परौन्नत्यम् | तीर्थकराणामुपदेशमनुसृत्य स्वयं परे च जना स्वजीवनमुन्नतं कुर्युस्तेन च तीर्थकरमार्गं तीर्थकरशासनं च प्रोज्ज्वलं कुर्युरित्येव तेषां हार्दोऽभिलाष आसीत् ।
58
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118