Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 80
________________ कलिकालसर्वज्ञानां श्रीहेमचन्दाचार्याणां प्रमुखसाहित्यसृष्टिः स्वीयं कलिकालसर्वज्ञत्वं प्रमाणीकर्तुं हेमचन्द्राचार्या साहित्यसृष्टिविद्वज्जगते उपायनीकृताऽस्ति तस्याः परिचयोऽत्र प्रस्तुतोऽस्ति । तेषां कुशाग्रप्रज्ञया सार्वत्रिकप्रतिभया च प्रायः सर्वेऽपि विषयाः ससाफल्यमवगाहिताः सन्ति । तेषां समकालीना महाविद्वांस आचार्या श्रीसोमप्रभसूरयस्तेषां ग्रन्थसृष्टेर्नामानि लिखन्ति, यथा - व्याकरणं पञ्चाङ्गं, प्रमाणशास्त्रं प्रमाणमीमांसा । छन्दोऽलङ्कृति-चूडामणि च शास्त्रेविभुळधित ॥१॥ एकार्थाऽनेकार्था, देश्या निघण्टुरिति च चत्वारः । विहिताश्च नामकोशाः, शुचिकवितानधुपाध्यायाः ॥२॥ व्युत्तरषष्टिशलाकानरेतिवृत्तं गृहिव्रतविचारे । अध्यात्मयोगशास्त्रं, विदधे जगदुपकृतिविधित्सुः ॥३।। लक्षण-साहित्यगुणं, विदधे च वयाश्रयं महाकाव्यम् । चक्रे विंशतिमुच्चैः, स वीतरागस्तवानां च ॥४॥ इति तद्विहितग्रन्थसङ्ख्यैव नहि विद्यते । नामाऽपि न विदन्त्येषां मादृशा मन्दमेधसः ।।५।। एतेन तेषां विशिष्टाप्रतिभायाः सूक्ष्मदर्शित्वस्य, सर्वदिग्गामिपाण्डित्यस्य बहुश्रुतत्वस्य च परिचयः प्राप्यते । यद्यपि, केचन विद्वांसो मन्यन्ते – यो हि मौलिकमपूर्वं Jain Education InternationaFor Private 1 Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118