Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 71
________________ महानृपतिद्वयप्रतिबोधकाः समर्थसाधवश्च श्रीहेमचन्द्राचार्याः स्वर्गभुवमलञ्चक्रुः । एतच्च वैक्रमे १२२९तमे संवति घटितम् । तेषामन्तिमयात्रायां लक्षशो जना उपस्थिता आसन् । चन्दनकाष्ठमयचितायां तेषां पार्थिवदेहस्याऽग्निसंस्कारो जातः । तदनन्तरं कुमारपालेन राज्ञा सबाष्पनेत्रेण तद्भस्मना तिलकं कृतम् । ततः सर्वैरपि जनैस्तत्रोपस्थितैस्तद्भस्म गृहीतम् । एतेन तत्र स्थाने महान् गर्त एव सञ्जातः, स चाऽद्याऽपि पत्तननगरे विद्यते 'हे - इति नाम्ना प्रसिद्धश्चाऽस्ति ।। तदनन्तरं षण्मासान्ते कुमारपालनृपोऽपि हेमचन्द्राचार्यनिर्दिष्टदिने परमात्मतत्त्वलीनहृदयो गुरुभिः कृतानामुपकाराणां स्मरणं कुर्वन्, यथा - श्रीहेमसूरिप्रभुपादपद्मं वन्दे भवाब्धेस्तरणैकपोतम् । ललाटपट्टान्नरकान्तराज्याक्षरावलियेन मम व्यलोपि ॥ इत्यादि, प्रसन्नचित्तः कृतजगज्जीवमैत्रीभावः स्वभ्रातृजेनाऽजयपालेन कृताद् विषप्रयोगान्मर्त्यदेहमिमं त्यक्त्वा स्वर्लोकं प्राप्तः । -------- अथ चैतत् चरितमिह समाप्तं भवति । किन्तु विरामात् पूर्वं काचित् स्पष्टता कर्तव्या । कलिकालसर्वज्ञानां श्रीहेमचन्द्राचार्याणां सम्पूर्ण जीवनचरितं कुत्राऽपि वर्णितं न प्राप्यते । विविधग्रन्थेषु केवलं याः काश्चन घटनाः प्रसङ्गाश्च प्राप्यन्ते तानेव गुम्फित्वाऽत्र किञ्चिद् वर्णितमस्ति । तत्राऽपि च तेषामेव समकालीनैः श्रीसोमप्रभाचार्यैः कुमारपालप्रतिबोधः-नाम प्राकृतभाषामयो ग्रन्थो विरचितोऽस्ति, स च हेमचन्द्राचार्यशिष्यैरेव संशोधितोऽस्त्यतः सर्वथा प्रामाणिकोऽस्तीति तदनुसारमेव तेषां जन्मादिप्रसङ्गा वर्णिताः सन्ति । तथैव केषुचित् प्रबन्धेषु * अद्यत्वे इदं स्थानं मुस्लिमजनानां हस्तगतमस्ति । Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118