Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 26
________________ वियोजनेन बलादपि तं निवारयेत् । एतच्च संसारस्य सनातनं सत्यम् । भवानपि चैतज्जानात्येव । अन्यच्च, यच्छ्रेयस्करं कार्य कर्तुमस्मादृशां शरीराणि मनांसि च न प्रभवेयुस्तत्राऽस्य बालस्य शरीरं मनश्चाऽवश्यं प्रभवेत् । एवं स्थितेऽपि केवलं शरीरमोहेन भवांस्तं यदि रोधयिष्यति तदा सत्पथात् तं च्यावयिष्यति केवलम् । तथा कुर्वंश्च भवानस्याऽकल्याणमेव साधयिष्यति' । एतच्छ्रुत्वा किञ्चिदनिश्चितमनस्को जातश्चच्च श्रेष्ठी सहसाऽवदत् - 'भवदुक्तं सत्यं स्यात् । किन्तु धनार्थं पुत्रमपि विक्रीणीयामित्येतादृशोऽधमोऽहं नास्मि' । ___ ‘मा मैवं वदतु चिन्तयतु वा । नाऽहं मूर्योऽस्मि यद् भवन्तं तादृशं परिगणयेयम् । किन्तु भवानेव चिन्तयतु - पत्तनस्याऽग्रगण्यजनानामन्यतमत्वेन शोभिष्यमाणं रत्नमिदं धन्धुक्कनगरे धूलीधूसरं भवितुं कथं वा मंस्यते भवान् ? अपि च, देशस्य गौरवं न केवलं लक्ष्म्यां वाणिज्ये युद्धविद्यायां वा परन्तु धर्मसंस्कारप्रचार-प्रसारेणाऽपि भवति । पत्तनस्थप्रसिद्धजैनाचार्यश्रीशान्तिसूरिविषये तु भवताऽपि श्रुतं स्यादेव । एवं स्थितेऽपि केवलं लौकिककार्यार्थमेव यदि भवांस्तं गृहे नेष्यति तदाऽहं भवन्तं नैव वारयिष्ये, किन्त्वेतावत् तु भवन्तं कथयाम्येव यत् तस्य जीवनसमृद्धिं प्रकटीभवन्ती रोधयन् भवांस्तस्य स्वस्य च जीवनं महापातकयुतमेव करिष्यति । अतः परं भवदिच्छैव प्रमाणम्' - उदयन उक्तवान् । चच्चस्य चित्तं किञ्चिदिव विचारयितुं प्रवृत्तम् । शान्तिसूरेः कथास्तु तेनाऽपि श्रुता आसन् । 'मम पुत्रो महान् धर्मप्रभावको भविष्यति, कदाचित् स धन्धुक्कनगरे आगमिष्यति, तदा च तस्य चरणयोः सहस्रशो जना लोठिष्यन्ति, तस्याऽऽशिषो ग्रहीतुं नरा अहमहमिकयाऽऽगमिष्यन्ति । नरपतयश्च तस्य नामग्रहणेन 17 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118