Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 29
________________ श्रावक उच्चैरुक्तवान् - 'प्रभो ! नाऽयं मुनिः सोमचन्द्रोऽपि तु हेमचन्द्रः, यतः प्रत्यक्षं स्वर्णपुरुषोऽयं शुद्धचारित्रनिष्ठश्च' । स गुरुभगवद्भयो विज्ञप्तवानपि यद् - 'गुरवः ! कृपया गुणगणनिधयेऽस्मै मुनये आचार्यपदप्रदानं कुर्वन्तु । तदर्थं च जायमानं सर्वमपि व्ययभारमहमेव निर्वक्ष्ये । तत्र च महोत्सवकरणस्य लाभमपि मह्यमेव ददतु' । इतश्च, यदा मुनिः सोमचन्द्रः प्रवचनं दत्ते स्म तदा जनास्तस्य वाण्यां सारल्यं, सरसत्वं, भाषाशुद्धिं, तार्किकतां, दृष्टान्तकथनं, गभीरतां, काव्यशक्तिं च विलोक्य मन्त्रमुग्धा इव विशुद्धानन्दमनुभवन्ति स्म, महामात्य उदयनस्तु तां श्रुत्वा गर्वमनुभवति स्म, किंबहुना ? गुरुभगवन्तोऽपि तदाकर्ण्य प्रसन्नतामनुभवन्ति स्म । अतस्तैरपि मुनेः सोमचन्द्रस्य सर्वतोग्राहि-विद्वत्तां विलक्षणप्रतिभा विशुद्धचारित्रनिष्ठां योग्यतां च निरीक्ष्य तस्यैकविंशे एव वयसि वैक्रमीये ११६६तमे वत्सरे वैशाखशुक्लतृतीया (अक्षयतृतीया)दिने आचार्यपदप्रदानं निर्णीतं, महामहोत्सवपुरस्सरं च नागपुर(नागौर)नगरे चन्दनादिभिर्दक्षिणकर्णं चर्चयित्वा सूरिमन्त्रं च श्रावयित्वा मुनये सोमचन्द्रायाऽऽचार्यपदं प्रदत्तम् । पदप्रदानावसरे च तस्य नामाऽपि परावर्त्य नूतनं नाम 'आचार्यहेमचन्द्रसूरि 'रिति स्थापितम् । इतः परं ते आचार्यहेमचन्द्रसूरय इति विश्रुता जाता जगति । तस्मिंश्चाऽऽचार्यपदप्रदानमहोत्सवे आचार्यश्रीहेमचन्द्रसूरीणां माता - चाहिणी अपि उपस्थिताऽऽसीत् । तया च तदवसरे दीक्षाग्रहणार्थं स्वभावना प्रदर्शिता । तदा गुरुभिरपि तद्भावनामङ्गीकृत्य सा दीक्षिता साध्वीसङ्के च प्रवेशिता । तदानीमेव च नूतनाचार्यैः स्वमातुरुपकाराणां वात्सल्यभावस्य च स्मृत्या तस्यै प्रवर्तिनी पदमपि प्रदत्तम् । * जैनसाध्वीनां सर्वोच्चं पदम् । 20 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118