Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 52
________________ 'तत्र च पूर्णतया प्रयत्नो विधातव्यः' इति चोपदिष्टम् । एतच्च कुमारपालायाऽतीव रुचितम् । तेन स्वीये सर्वस्मिन्नपि राज्येऽमारिघोषणं कृतं, मांसभक्षणं च सर्वथा त्याजितम् । एतावदेव न, तेन स्वराज्ये वसतां सहस्रशः सौनिकानामपि मांसविक्रयणादिवृत्ति त्याजयित्वा नूतनां वृत्तिमारब्धं सूचितं, वर्षत्रयं यावत् तेषां निर्वाह: स्यात् तावन्मितं धनमपि तेभ्यः प्रदत्तं राजकोशात् । ततः शनैः शनैस्तेन स्वशासने सर्वत्रैवमेवाऽमारिघोषणं कृतं पूर्णतया च पालितम् । तच्च पालनं तथा कारितं तेन यथा कुत्राऽपि कोऽपि 'म्रियस्व-मारये’त्यादि वचनप्रयोगमपि कर्तुं नाऽनुमन्यते स्म । यदि स तथा प्रयोगं कुर्यात् तदा तस्य कठोरदण्डः प्राप्येत । एतदमारिघोषणं राजपुरुषाणां सामन्तानामन्येषां च जनानां निर्बलत्वं भीरुत्वं वाऽभासत । किन्तु कुमारपाल: स्वनिर्णये दृढ एवाऽवर्तत । तस्याऽविचलं मतमासीद् यद् बल-पराक्रमौ अन्यद् वस्तु, दयाऽहिंसा चाऽन्यदेव वस्तु । दयाया अहिंसायाश्च पालनेन न कोऽपि निर्बलो भीरुर्वा भवेदिति । अथाऽणिहल्लपुरपत्तने चौलुक्यानां कुलदेव्याः कण्टकेश्वरीदेव्या मन्दिरमासीत् । तस्मिन् प्रतिवर्ष - मेकवारं शतशो महिषादिजीवानां बलिदानं कृत्वा नैवेद्यरूपेण देव्यै समर्प्यते स्म । बलिदाननियमः कुलपरम्परागत आसीत् । स कदाचिदपि परावर्तयितुं न शक्यते स्म । यदा तदवसरः समागतस्तदा कुमारपालो हेमचन्द्राचार्याणां मार्गदर्शनं प्रातुं तेषां पार्श्वे गत: । यदा स तत्र गतस्तदा जनैः सर्वैरप्यूहितमासीद् यदधुनाऽऽचार्याणां परीक्षा भविष्यति । यतो यदि स तन्निषेधं कुर्यात् तदा नृपस्य हानिर्भविष्यति, तथा ते तद्विधानानुमतिं दातुमपि नैव शक्ताः, स्पष्टतया हिंसात्वात् तस्य । किन्तु सर्वेषामाश्चर्यमध्ये तैः कुमारपालस्य कथितं - 'राजन् ! भवतः कुलदेव्याः कण्टकेश्वर्याः 43 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118