Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 51
________________ त्पुण्यार्थं कोटित्रय - मितधनं व्ययितुं निर्णीतं घोषितं च । हेमचन्द्राचार्या अपि तत्रोपस्थिता आसन् । मात्रा धनव्ययघोषणं श्रुत्वा पुत्राभिमुखमालोकितम् । तदा तैरपि मातुः कृते लक्षत्रयमित श्लोकसर्जनपुण्यमुद्घोषितम् । तच्च श्रुत्वा सा प्रसन्ना जाता परमेष्ठिनमस्कार श्रवण-ध्यानादिपुरस्सरं च समाधिमरणं प्राप्य दिवङ्गता । तत आरभ्य हेमचन्द्राचार्या अधिकाधिकसाहित्यसर्जनानुषक्ताः कालं गमयन्ति स्म । एकदा कुमारपालेन धर्मचर्चायां जिज्ञासया 'जीवनस्य सार्थक्यं कुत्र कथं वे 'ति आचार्याः पृष्टाः । तदा तस्य सत्यजिज्ञासां ज्ञात्वाऽऽचार्यैः कथितं यद् - 'जीवनसार्थक्यं हि बोध (ज्ञान) - श्रद्धा (दर्शन) - आचरण ( चारित्र) रूपाया रत्नत्रय्या आराधने विद्यते । य एनां रत्नत्रयीं मनो- वाक्काययोगैः सम्पूर्णतयाऽऽराधयति तस्य कस्याऽपि सम्प्रदायस्याऽनुयायित्वं नाऽऽवश्यकम् । एतदाराधनेनैव स कृतार्थो भवेत् । ततो राजाऽपि यथावबोधं सश्रद्धं सदाचरणे रतोऽभवत् । अथाऽन्यदा नगरचर्यां कुर्वन् स वधार्थं सौनिकगृहे नीयमानान् पशून् व्यलोकत । पशूनामार्तनादान् श्रुत्वा तस्य हृदयं करुणया द्रवीभूतम् । सहैव तन्मनसि ग्लानिरपि सञ्जाता यद् - 'राज्ये यदेतादृशं हिंसादिकार्यं भवति तस्य सर्वस्याऽपि उत्तरदायित्वं ममैव' । स सत्वरं गुरूणामन्तिकं गत्वाऽत्राऽर्थे तेषां मार्गदर्शनमयाचत । तैरपि 'दयैवाऽहिंसैव च सर्वेषामपि धर्माणां मूलमस्ती'ति प्ररूपितं कथितं च - श्रूयते सर्वशास्त्रेषु सर्वेषु समयेषु च । अहिंसा लक्षणो धर्मस्तद्विपक्षश्च पातकम् ॥१॥ क्षमातुल्यं तपो नास्ति, न सन्तोषात् परं सुखम् । न मैत्रीसदृशं दानं, न धर्मोऽस्ति दयासमः ॥ २॥ 42 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118