Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 40
________________ अधाम धामधामेदं वयमेव हृदि स्फुटम् । यस्याऽस्तव्यसनं प्राप्ते त्यजामो भोजनोदके ।। अन्ये तु न परमार्थतः सूर्याराधकाः, यतः पयोदपटलैश्छन्ने नैव कुर्वन्ति भोजनम् । अस्तङ्गतेऽतिभुञ्जाना अहो भानोः सुसेवकाः ॥ अस्तङ्गते च सूर्ये भोजनादीनां त्यागादि महत्फलं प्राप्येत । एतदर्थे च महर्षिणा व्यासेनाऽप्युक्तम् ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य फलं मासेन जायते ॥' श्रुत्वैतत् प्रसन्नः सिद्धराजः सभासद उद्दिश्योक्तवान् - "विचार्यैव वक्तव्यं सर्वथा, न पुनरविचार्य'ति । एवमेवाऽन्यदा राजसभायां समागतेभ्यः सर्वेभ्योऽपि धर्मगुरुभ्योऽन्यपण्डितेभ्यश्च राज्ञा पृष्टं - 'मान्या धर्मगुरवो विद्वांसश्च ! अहं ज्ञातुमिच्छामि यदत्र जगति पात्रं किम् ?' तदा तदुत्तररूपेणाऽन्यान्यैर्धर्मगुरुभिः पण्डितैश्च स्वस्वसम्प्रदायानुसारं ये वर्तन्ते ये वाऽमुकं दर्शनं मन्यन्ते ते पात्रमिति प्रतिपादितम् । एतेन राज्ञः सन्तोषो नैव जातः । अथैतावताऽपि हेमचन्द्राचार्या मौनमाश्रित्यैवोपविष्टा आसन् । एतदुपलक्ष्य राज्ञा सादरमाचार्याः पृष्टा इममेवाऽर्थम् । एतद्विलोक्य बहव ईर्ष्यालवो हृष्टा जाता यदधुना जैनत्वादेते जैनमुनिरेव पात्रमिति कथयिष्यन्ति, तदा च तेऽपि साम्प्रदायिका मताग्रहिणश्चैवेति सिद्धं भविष्यति। ततश्च राजा जैनेभ्यो विमुखो भविष्यतीति । किन्तु हेमचन्द्राचार्याणां पिण्डमन्ययैव मृत्तिकया निर्मितमासीत् । तैरुक्तं - 'राजन् ! श्रूयताम् । पात्रपरीक्षा तु स्वविवेकनैव जायते न तु कस्यचित् कथनेन । एतदर्थे महाभारते 31 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118