Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text
________________
कलिकालसर्वज्ञ श्रीहेमचन्दाचार्याणां
जीवनचरितम्
अयि भोः ! संस्कृतभाषा-काव्य-साहित्य-तर्क-योगपुराणेतिहासप्रभृतिविद्याध्ययनाध्यापन-सर्जनादिपटिष्ठा विद्वज्ज्येष्ठाः ! परिचितचरा एव तत्रभवतां भवतां पाणिनि-मम्मटानन्दवर्धनामरसिंहकालिदासाक्षपाद-पतञ्जलि-व्यासादयो महर्षयो महाकवयो ग्रन्थकाराश्च । एतैविना हि समग्रा अपि पूर्वोक्ता विद्याशाखाः शून्यायेरन् खलु ! किन्त्वेतेषामेव विविधदेशेषु विविधकालखण्डेषु च सञ्जातस्थितिकानां समन्वय एकस्मिन्नेव देशे एकत्र चैव कालखण्डे एकस्यां चैव व्यक्तौ सञ्जात इति वार्ता कदाचित् कर्ण-नयन-मनोगोचरा स्यात् तदा सा किं श्रद्धेया भवेत् खलु ? नैव । असम्भवितमेवैतत् किल !
तथाऽपि एतस्मिन्नेव भारते देशेऽसम्भवितमपि तथाऽश्रद्धेयमप्येतत् सञ्जातमेव । कदा? कुत्र? - इति प्रश्नावलिरुत्तिष्ठेतैव नो मनस्येतत् श्रुत्वा । अरे ! इदामिदानीमेवाऽस्मिन्नेव सहस्राब्देऽत्रैव च गूर्जरदेशेऽसम्भवितमप्यश्रद्धेयमपि चैतत् सञ्जातं कलिकालसर्वज्ञानां श्रीमतां हेमचन्द्राचार्याणां जीवने । तेषां नित्यस्मरणीयमभिधानं केषां देश-विदेशीयानां विदुषामविदितं ननु ! विश्वस्यैकमनुपमं च महाव्यक्तित्वं, भारतीयसंस्कृतेर्यशउज्ज्वला गौरवगाथा, गूर्जरदेशं भाषा-साहित्य-संस्कारैः समृद्धीकुर्वज्जीवत् तपः, ज्ञानमहार्णव-(Ocean of knowledge)तया अतिशायिप्रज्ञ
*
अपार श्रुतकूपारदृश्यतया सञ्जातकलिकालसर्वज्ञप्रसिद्धेः । (कुमारपालचरितसङ्ग्रहे)
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 118