Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust

View full book text
Previous | Next

Page 15
________________ तुरुष्कैर्भङ्गः कृतः । अन्यतः पूर्वोत्तरभारते शङ्कराचार्यस्य प्रभावेण शिष्टा जैना अपि ततो निर्गत्य पश्चिमभारतं समागताः । श्रीमालप्रदेशाच्चाऽधिकाधिक-गूर्जरा आनर्तादिप्रदेशेषु समागताः । अतस्तदात्व एव गूर्जराणामाधिक्यात् स प्रदेशः गूर्जरदेशतया प्रसिद्धो जातः । गूर्जरेष्वपि मुख्यतः चापोत्कट (चावडा) वंशीयाः क्षत्रिया एव तत्र प्रबला आसत्, अतस्ते एवाऽत्र प्रदेशे शासका जाताः । प्रारम्भे तु गूर्जरदेशो लघुरेवाऽऽसीत्, किन्तु शनैः शनैः तच्छासकानां शौर्य-पराक्रम-नीतिबलेन तस्य सीमानो विस्तार प्राप्ताः । देशस्य प्रजाभिरपि निकटस्थ-मालवदेश-श्रीमालदेशवलभीप्रदेशादीनां संस्कृति-संस्कारादीनामाधारेण स्वसंस्कृतिसंस्कारादयोऽङ्करिता वृद्धि प्रापिताश्च । किन्तु तासां(प्रजानां) धर्मसंस्कार-प्रेम-दया-ऽहिंसादयस्तु जैनमुनिभिरेवाऽऽमूलमारोपिता अङ्करिताः पल्लविताश्च । जैनाचार्यैहि जानद्भिरजानद्भिर्वा गूर्जरप्रजानां मानसं संस्कर्तुं पूर्णतया प्रयतितमस्ति । यतः पूर्वोत्तरदेशेभ्यो निःसृतानां जैनानां प्रथममाश्रयस्थानं राजस्थानप्रदेशस्ततश्च गूर्जरदेशो जातोऽतस्तौ द्वावपि देशौ संस्कर्तुं धर्मसमृद्धं च कर्तुं जैनसाधुभिः स्वीयं सर्वं सत्त्वं व्यापारितमिति यदि कथ्येत तदा नाऽस्ति अतिशयोक्तिः । इतिहासविदोऽपि वदन्ति यद् भिन्नमाल-वलभ्योः पतनानन्तरं गूर्जरदेशं गूर्जराणां शासनं च स्थापयितुं द्रढयितुं च जैनमन्त्रिभि नश्रेष्ठिभिश्चैवाऽत्यधिकतया प्रयतितं साफल्यं च प्राप्तमस्ति । कथनमिदं सर्वथा वास्तविकमस्ति । गूर्जराणां प्रथमस्य राज्ञो वनराज-चापोत्कटस्य मन्त्रिणो जाम्बश्रेष्ठिन आरभ्य आधुनिकसमये श्रेष्ठिश्रीलालभाई-दलपतभाई इत्येनं तथा श्रेष्ठिश्रीकस्तूरभाई-लालभाई-इत्येनं यावत् पश्येम तदा ज्ञायते Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118