Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text
________________
तस्य राज्ञोऽन्वये सञ्जातस्य श्रीकुमारपालस्य तु ते पदे पदे प्रष्टव्या गुरव एवाऽऽसन् । तेषामुपदेशेन चाऽनेनाऽष्टादशसु देशेषु जीवदयाऽमारिघोषणं च प्रवर्तितम् । तदारभ्यैव गूर्जरदेशे यज्ञ-यागादिष्वपि जीववधो निषिद्धो जातः । मांसभक्षणं मद्यपानं च सर्वथा प्रतिषिद्धं जातम् ।
ततोऽपि वीरधवलस्य राज्ञः शासने वस्तुपालतेजःपालयोश्च तन्महामात्य-सेनापत्योः जैनमन्त्रिणो राज्यकार्यकोंः सतोर्जेनाचार्याणां विजयसेनसूरिप्रमुखाणां मार्गदर्शनं प्राधान्यं भजति स्म ।
एवं नैके गूर्जरदेशीया राजानस्तदनन्तरमपि जैनसाधूनां मार्गदर्शनेनोपदेशेन च हिंसा-मद्यपानादि-निवारणां कृतवन्तः । अरे ! मोगलबादशाह-अकब्बरोऽपि जैनाचार्यश्रीहीरविजयसूरीणां गुणै रञ्जितहृदय-स्तेभ्यः सकाशाद् धर्मोपदेशश्रवणं कृतवान्, तेषां प्रेरणया च समग्रे देशे षाण्मासिकीममारिघोषणां (अहिंसाघोषणां) कारितवान् ।
अस्तु तावत् । प्रकृतं प्रस्तुमः । एवं च जैनसाधूनां सततं विचरणेन संस्कारदानेन च गूर्जरदेशस्य प्रजाः शान्ता दया-परोपकारसहिष्णुता-ऽहिंसादिगुणोपेताः जाता:* । तासां कुलं मूलं चाऽतीव गौरवशालि गभीरं च वर्तते ।
__ अथ च गूर्जरप्रदेशस्यैव प्रजाजनानामन्यतमा आसन् कलिकालसर्वज्ञाः श्रीहेमचन्द्राचार्याः । तैर्हि कथं निजजीवनं ज्ञान-दर्शन-संयमोपशम-योगादिगुणैः प्रोज्ज्वलं कृतं, कथं च कल्पनातीतो विशालो ग्रन्थराशिविरचितो, गूर्जरदेशश्च भाषा+ दृश्यताम् - आइन्-ए-अकबरी, अकबरनामा च । * लोकमान्यतिलकेन स्वीये प्रवचने एकदा कथितमिदम् ।
9
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118