Book Title: Hemchandracharya Jivan Charitam
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
View full book text
________________
(Intellectual giant)तया च सर्वत्र प्रथितं सार्वकालिकं सार्वदेशिकं विश्वजनीनं व्यक्तित्वं किलैतत्-इति तु सर्वथाऽविज्ञापनीयमेव विदुषां खलु ।
एवंस्थितेऽपि ऐदंयुगीनानां विद्याचणानां विद्यार्थिनां जिज्ञासूनां च कदाचित् जायेताऽपि जिज्ञासा यत् - कथङ्कारमेते विश्वस्याऽनुपमं महाव्यक्तित्वं सम्पादितवन्तः ? कथङ्कारं चैते ज्ञानमहार्णवतया अतिशायि-प्रज्ञतया च जगति प्रसिद्धाः ? कथं च गूर्जरदेशं भाषा-साहित्य-संस्कारैरेते समृद्धीकृतवन्तः ? कथङ्कारं चैतेषु पाणिनि-मम्मटानन्दनवर्धनामरसिंह-कालिदासाक्षपादपतञ्जलि-व्यासादीनां महर्षीणां महाकवीनां ग्रन्थकाराणां च समन्वयः ? इत्यादि ।
एताः सर्वाः अन्याश्चाऽनुक्ताः सर्वा अपि जिज्ञासाः शमयितुमेवाऽयमुपक्रमो रचितोऽस्ति । किन्तु, स्थीयतां क्षणम् । तैहि विश्वजनीनैर्महात्मभिर्यो देश-कालावलङ्कृतावास्तां तावपि प्रथमं जैयौ खलु ! अतः ऐदम्प्राथम्येन तावेव प्रथमं विचारयामः । तत्राऽपि प्रथमं तावत् तेषां देशं-जन्मभूमिं कर्मभूमिं विचरणभूमिसर्वमप्येकमेवगूर्जरदेशं विचारयामः, सहैव तादात्विकी कालपरिस्थितिमपि किञ्चिद् विलोकयामः । गूर्जरराज्यस्य (गूजरातस्य) अद्यैका स्वतन्त्रा स्वारस्यपूर्णा चाऽभिव्यक्तिरस्ति । बहुशो गूर्जरजनानन्ये जना निर्बलतया भावयन्तः किञ्चिद् हीनतया प्रेक्षन्ते । किन्तु गूर्जरसदृशाः साहसिकाः पराक्रमिणो धीराश्च जना अत्यल्पाः सन्ति । प्राच्यकाले समग्रोऽपि सामुद्रिकवाणिज्यव्यापारः प्रायशो गूर्जरजनाधीन एवाऽऽसीत् । वाणिज्यमाध्यमेन ते सर्वत्राऽपि जगति गच्छन्ति स्म, वसन्ति स्म, तत्रत्यैश्च जनैः सहाऽऽनुकूल्येन सम्मिलन्ति स्म चाऽपि । गूर्जरवणिजो जावा-सुमात्रा-ब्रह्मदेशनेपाल-चीन-पारसकूल-आफ्रिका-ग्रीस-रोमप्रभृतिदेशेष्वपि
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 118