Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh

View full book text
Previous | Next

Page 61
________________ सर्गः१० गिरिनारगिरेौलौ, नत्वा ये नेमिनं जिनम्। पातकं क्षालयन्ति स्वं, धन्यास्ते धृतसम्मदा: ।।१।। सर्वज्ञ: सर्वदर्शी सकलसुखकर: सर्वसन्तापहर्ता, पूज्य: सर्वेश्वराणामनणुगुणयुत: कर्मसाक्षीव भास्वान् । सोम: पञ्चेषुवैरी नरकविमथनो योगिभिर्येयमूर्ति, र्योऽनन्तोऽव्यक्तरूपो न निधनकलितो वीतराग: स पातु।।२।। इतश्च त्रिदशाधीश:, प्रणिपत्य जिनेश्वरम्। महावीरं महाभक्त्या, व्यजिज्ञपदिदं पुन:।।३।। स्वामिन्नस्मत्समुद्धारकृते शत्रुञ्जयप्रथा। मुख्यशृङ्गश्रिताऽऽख्यायि, तेन जातोऽस्मि पावनः ।।४।। पुनरष्टोत्तरशतं, शृङ्गाणामस्य भूभृतः । यदवादीस्तदन्तस्तु, प्रोत्तमान्येकविंशतिः ।।५।। स्वामिस्तेष्वपि यस्यास्ति, शृङ्गस्य महिमाऽधिकः । तमहं श्रोतुमिच्छामि, पावनायाखिलाङ्गिनाम् ।।६।। येन श्रुतेनापि भवेत्, सर्वपापपरिक्षयः । प्रसद्य महिमानं तं, समादिश जगद्विभोः ।।७।। अवधार्येति शक्रस्य, वचनं त्रिजगद्गुरुः । कृपया सर्वजन्तूनां, प्रारेभे वक्तुमप्यद: ।। ८ ।। श्रृणु शक्र महान् योऽसौ, गिरीन्द्रो रैवताभिधः । सिद्धद्रेः पञ्चमं शृङ्ग, पञ्चमज्ञानदायकम् ।।९।। समग्रक्षितिभृत्सेव्यः, समग्रक्षितिभृत्पतिः । आश्रितक्षितिहर्ताऽसौ, जयी रैवतपर्वतः।।१०।। यश्चानेकतम:स्तोमतिरस्कारविभाकरः । 'ગરનાર ગ્રંથોની ગોદમાં Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118