________________
सर्गः१० गिरिनारगिरेौलौ, नत्वा ये नेमिनं जिनम्।
पातकं क्षालयन्ति स्वं, धन्यास्ते धृतसम्मदा: ।।१।। सर्वज्ञ: सर्वदर्शी सकलसुखकर: सर्वसन्तापहर्ता,
पूज्य: सर्वेश्वराणामनणुगुणयुत: कर्मसाक्षीव भास्वान् । सोम: पञ्चेषुवैरी नरकविमथनो योगिभिर्येयमूर्ति,
र्योऽनन्तोऽव्यक्तरूपो न निधनकलितो वीतराग: स पातु।।२।। इतश्च त्रिदशाधीश:, प्रणिपत्य जिनेश्वरम्।
महावीरं महाभक्त्या, व्यजिज्ञपदिदं पुन:।।३।। स्वामिन्नस्मत्समुद्धारकृते शत्रुञ्जयप्रथा।
मुख्यशृङ्गश्रिताऽऽख्यायि, तेन जातोऽस्मि पावनः ।।४।। पुनरष्टोत्तरशतं, शृङ्गाणामस्य भूभृतः ।
यदवादीस्तदन्तस्तु, प्रोत्तमान्येकविंशतिः ।।५।। स्वामिस्तेष्वपि यस्यास्ति, शृङ्गस्य महिमाऽधिकः ।
तमहं श्रोतुमिच्छामि, पावनायाखिलाङ्गिनाम् ।।६।। येन श्रुतेनापि भवेत्, सर्वपापपरिक्षयः ।
प्रसद्य महिमानं तं, समादिश जगद्विभोः ।।७।। अवधार्येति शक्रस्य, वचनं त्रिजगद्गुरुः ।
कृपया सर्वजन्तूनां, प्रारेभे वक्तुमप्यद: ।। ८ ।। श्रृणु शक्र महान् योऽसौ, गिरीन्द्रो रैवताभिधः ।
सिद्धद्रेः पञ्चमं शृङ्ग, पञ्चमज्ञानदायकम् ।।९।। समग्रक्षितिभृत्सेव्यः, समग्रक्षितिभृत्पतिः ।
आश्रितक्षितिहर्ताऽसौ, जयी रैवतपर्वतः।।१०।। यश्चानेकतम:स्तोमतिरस्कारविभाकरः ।
'ગરનાર ગ્રંથોની ગોદમાં
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org