Book Title: Girnar Granthoni Godma
Author(s): Hemvallabhvijay
Publisher: Girnar Mahatirth Vikas Samiti Junagadh
View full book text
________________
द्रुमा धन्या मयूराद्याः पक्षिण: पुण्यशालिनः।
वसन्ति रैवते यत्र मनुष्याणां किमुच्यते ।। ३९ ।। देवता ऋषय: सिद्धा गन्धर्वा: किन्नरादयः ।
सोत्साहाश्च सामायान्ति तं सेवितुमनारतम् ।। ४० ।। न ता ओषधयो दिव्या न ता: स्वर्णादिसिद्धयः ।
रसकूपा न ते येऽत्र गिरौ सन्ति न शाश्वता: ।। ४१ ।। गजेन्द्रपदमत्रास्ति कुण्डं तुण्डं शिवश्रियाम् ।
यत्र जीवसंसक्तिः शक्तिः पापापनोदने ।। ४२ ।। परेषामपि कुण्डानां प्रभावाऽयं पृथक् पृथक् ।
___षण्मासे स्नानतो रोगा: कुष्टाद्या यान्ति जन्तुषु ।। ४३ ॥ महिमानमिति श्रुत्वा श्रीमन्नेमिमुखाम्बुजात्।
सुरासुरनरेशाश्च जहर्षुः पुण्यशालिन: ।। ४४ ।। जगाद विष्णुर्मचैत्ये, स्थापितेयं मयाऽत्र किम् ।
कालं स्थास्यत्यथान्यत्र, क्व क्व पूजामवाप्स्यति ।। ४५ ॥ उवाच स्वाम्यपीयं ते, प्रासादे त्वत्पुरावधि ।
पूजामाप्स्यत्यत: शैले. काञ्चनाख्ये सुरैः कृताम् ।। ४६ ।। द्विसहस्रीमतिक्रम्य, वर्षाणामतिदुःखदाम्।
अस्मन्निर्वाणसमयादम्बादेशाद्वणिग्वरः ।। ४७।। ततोऽप्यानीय रत्नाह एनां सम्पूजयिष्यति।
पुना रैवतकेऽत्रैव, सप्रासादां सुवासन: ।। ४८ ।। युग्मम् || स्थात्वा लक्षं सहस्राश्च, समास्तिस्र: शतद्वयम् ।
पञ्चाशतिं तथात्रासौ, तिरोधास्यत्यत: पुन: ।। ४९ ॥ एकान्तदुःषमाकाले, ततोऽम्बैनां पयोधिगाम्।
कृत्वाऽर्चयिष्यति घनं, ततोऽन्येऽपि सरा हरे ।। ५० ॥
ગિરનાર ગ્રંથોની ગોમાં
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118