Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अटमोऽध्यायः
Acharya Shri Kailassagarsuri Gyanmandir
१६७
[ नृत्ये आल्यादीनां प्रातिस्त्रिकविषयनिरूपणम् ]
(अ) आस्ये) नाऽऽलम्बयेद् गीतं हस्तेनार्थं प्रकल्पयेत् । चतुभ्य च भवेद् भावः पादाभ्यां तालनिर्णयः ॥ १२० ॥ [ ग्रन्थकृतः स्वाहङ्कारपरिहारः ] श्रीविश्वकर्मणः शास्त्रे पुराणभरतागमे । रूपसंख्याऽप्यनेकाऽस्ति लेशोऽयं लिखितस्ततः ॥ १२१ ॥ [ ग्रन्थसमाप्तिः ] यस्या नो कलयन्ति रूपमखिलं ब्रह्मादयो देवता गौर्या विश्वमिदं विचित्ररचनाश्चर्यं समुत्पद्यते ।
प्रोक्तं रसानामिदमत्र लक्ष्म दृशाञ्च संक्षिप्ततया तदेतत् ।
विज्ञाय चित्रं लिखतां नराणां न संशयं याति मनः कदाचित् ॥ (अ० ८२, श्लो० ३५ ) इति ।
१२० | पुनरपि नृत्यादौ विशेषमाह - आस्येनेति । अत्र यथाश्रुतपाठे सामान्यवाचिना अङ्गशब्देन अङ्ग विशेषो मुखं लक्ष्यते, यथा नदीविशेषजोऽपि गाङ्गेयः शान्तनवो नदीज इति । श्लोकः स्पष्टार्थः । समराङ्गणसूत्रधारे
हस्तेन सूचयन्नर्थं दृष्ट्या च प्रतिपादयन् । सजीव इति दृश्येत सर्वाभिनयदर्शनात् ॥
इति (अ० ८२, श्लो० ३३-३४ ),
For Private And Personal Use Only
आङ्गिके चैव चित्रे * * * साधनमुच्यते । ( भवेदादत ? ) स्तस्मादनयोश्चित्रमाश्रितम् ॥
इति यथोक्तमर्थमनुवदन्निव तस्य चित्रोपकारकत्वमपि व्यादिदेश । नन्दिकेश्वरविरचिते अभिनयदर्पणे ( Calentta Sanskrit Series, No. V. ) -
ari दर्शयेद्भावं पादाभ्यां तालमादिशेत्'
इति द्वितीयचरणपरिवृत्त्याज्यं श्लोकः, अविकलः पूर्वश्लोकश्च वर्तते ।
१२२ । सम्प्रति ग्रन्थकर्त्ता स्वकृतेरसमग्रत्वमन्यच्छायायोनित्वञ्च प्रत्याययति -श्रीविश्वकर्मण इति । पुराणे मातृस्यानेयविष्णुवर्मोत्तरादौ भरतागमे भरतकृतनान्यसूत्रादौ च रूपसंख्याऽपि, न केवलं नृत्यगीतादिगतविशेष इत्यपेरर्थः, अनेका अस्ति, मया तु ततो लेशोऽल्पमात्रं लिखितः । आस्तां नाम नृत्यगीतादिविषयके विशेषे न्यूनता तत्रास्माकमनधिकारात, यत्त्वस्मदधिकृतायां रूपसंख्यायामप्यसामग्र्यं तदेव मां दुःखाकरोतीति भावः ।
Loading... Page Navigation 1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339