Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः (१)वामाग्रे कुञ्चितः पश्चादन्यपादस्तु जानुना । पृथिवीं संस्थितो यत्र गारुडं स्यात्तदासनम् ॥ ५१ ॥
___ इति (२)गारुडः। वैकुण्ठञ्च प्रवक्ष्यामि सोऽष्टबाहुर्महाबलः । ताासनश्चतुर्वक्त्रः कर्तव्यः शान्तिमिच्छता ॥ ५२ ।। गदां खड्गं चक्रशरं दक्षिणे च चतुष्टयम् । शङ्ख खेटं धनुः पद्मं वामे दद्याच्चतुष्टयम् ॥ ५३ ॥ अग्रतः पुरुषाकारं नारसिंहं च दक्षिणे । अपरं स्त्रीमुखाकारं वाराहास्यं तथोत्तरम् ॥ ५४ ॥
इति वैकुण्ठः । विंशत्या हस्तकैयुक्तो विश्वरूपश्चतुर्मुखः ।। पताका हलशङ्खौ च वज्राङ्कुश(३)शरांस्तथा ॥ ५५ ॥ चक्रञ्च (४)बीजपूरञ्च वरो दक्षिणबाहुषु । पताका दण्डपाशौ च गदाशार्होत्पलानि च । शृङ्गी मुशलमक्षश्च क्रमात् स्युमिबाहुषु ॥ ५६ ॥ हस्तद्वये योगमुद्रा वैनतेयोपरि स्थितः । क्रमान्नर-नृसिंह-स्त्री-वराह-मुखवन्मुखः ।। ५७ ॥
इति (५)विश्वमुखः । अनन्तोऽनन्तरूपस्तु हस्तैदशभिर्युतः । अनन्तशक्तिसंवीतो गरुडस्थश्चतुर्मुखः ॥ ५८ ॥ दक्षिणे तु गदाखड्गौ चक्रं वज्राङ्कुशौ शरः । शङ्खः खेदं धनुः पद्मं दण्डपाशौ च वामतः ॥ ५९ ॥
इत्यनन्तः। मुखानि पूर्ववत्तस्याप्यत्र त्रैलोक्यमोहनः । स षोडशभुजस्ताारूढः प्राग्वच्चतुर्मुखैः ।। ६० ॥ गदाचक्राङ्कुशौ (६)बाणं शक्तिश्चक्रं वरः क्रमात् ।
दक्षेषु मुद्गरः पाशः शार्ङ्गशङ्खाब्जकुण्डिका(:) ॥ ६१ ॥ (१) 'वामोऽग्रे' इति स्यात् । (२) 'गरुडः' इति स्यात् । (३) '-शरास्तथा' इति स्यात् । (४) 'बीजपूरश्च' इति स्यात् । (५) 'विश्वरूपः' इति स्यात् । (६) 'बाणः' इति स्यात् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339