Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः रक्ताक्षो (१)वाम भेदोऽसौ वामे दक्षे त्रिलोचनः । दिगद्वारपक्षयुग्मे च प्रशस्ता विघ्ननाशनाः॥५६॥
इति चण्डिकाष्टकप्रतिहाराः । अष्टपत्राम्बुजस्योचे लक्ष्मीः सिंहासने शुभे । विनायकवदासीना सर्वाभरणभूषिता ॥ ५७ ॥ ऊर्ध्वहस्तौ प्रकर्त्तव्यौ देव्याः पङ्कजधारिणौ । (२)वामे घृतघटं धत्ते दक्षिणे मातुलिङ्गकम् ॥ ५८ ॥
इति लक्ष्म्या मूर्तिः । क्षेत्रे कोल्ला(३)पुरे दैत्ये महालक्ष्मीर्यदाऽर्च्यते । लक्ष्मीवत् सा सदा कार्या रूपाभरणभूषिता ॥ ५९॥ दक्षिणाधःकरे पात्रमूर्व कौमोदकी भवेत् । वामोर्चे खेटकं धत्ते श्रीफलं तदधःकरे ॥ ६॥
__ इति महालक्ष्मीः । एकवक्त्रा चतुर्हस्ता मुकुटेन विराजिता । प्रभामण्डलसंयुक्ता कुण्डलान्वितशेखरा ॥ ६१ ॥ अक्षाब्जवीणा पुस्तकं महाविद्या प्रकीर्तिता ।
[इति महाविद्या] वराक्षाब्जे पुस्तकश्च सरस्वती शुभावहा ॥ ६२ ।।
[इति सरस्वती] हंसारूढा प्रकर्तव्या साक्षसूत्रकमण्डलुः । स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ ६३ ॥
इति ब्राह्मी। माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता । कपालशूलखटाङ्गवरदा च चतुर्भुजा ॥ ६४ ॥
____ इति माहेश्वरी।
(१) 'नाम' इति स्यात् । (२) 'वामेऽमृतघटं' इति स्यात् । (३) '-पुरादन्ये' इति स्यात् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339