Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 322
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपमण्डने कुमाररूपा कौमारी मयूरवरवाहना। रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥ ६५॥ इति कौमारी। वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता । चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥६६॥ इति वैष्णवी। वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिताम् । (१)वाराहसदृशी घण्टानादा चामरधारिणी ॥ ६७॥ गदा चक्रगदा तद्वदानवेन्द्रविघातिनी । लोकानाञ्च हितार्थाय सर्वव्याधिविनाशिनी ॥ ६८ ॥ ___ इति वाराही । इन्द्राणी विन्द्रसदृशी वज्रशूलगदाधरा । गजासनगता देवी लोचनैर्बहुभिर्वृता ॥ ६९ ॥ इति इन्द्राणी। दंष्ट्राला क्षीणदेहा च गर्ताक्षा भीमरूपिणी । दिग्बाहुः क्षामकुक्षिश्च मुशलं चक्रमार्गणौ ॥ ७० ॥ अङ्कुशं बिभ्रती खड्गं दक्षिणेष्वथ वामतः । खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ॥ ७१ ॥ चामुण्डा प्रेतगा रक्ता विकृता(२)स्यादिभूषणा । द्विभुजा वा प्रकर्तव्या ( कृत्तिकाकार्यरन्विता? ) ॥ ७२ ॥ इति चामुण्डा । वीरेश्वरस्तु भगवान् वृषारूढो धनुर्धरः । वीणाहस्तं त्रिशूलञ्च मातृणामग्रतो भवेत् । मध्ये च मातृका कार्या अन्ते (३)तेषां विनायकः ॥ ७३॥ इति सप्त मातरः। (१) 'वराह-' इति स्यात् । (२) स्याहिभूषणा' इति स्यात् । (३) 'तासां' इति स्यात्। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339