Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited

View full book text
Previous | Next

Page 326
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रूपमण्डने कन्दपी निर्वाणी बाला धारिणी (१)धरणाप्रिया । नादरक्ता च गन्धर्वाऽम्बिका (२)पद्मवती तथा । सिद्धायका चेति जैन्यः(३)क्रमा वासवदेवताः ॥ १६ ॥ इति जिनानां (४)यक्षणीनामानि । [एतेषां लक्षणम् , तत्र गोमुखः ] (५)रिषभो गोमुखो यक्षो(६)हेमवी गजानना । (७)वराक्षसूत्रमाशाञ्च उभबीजपुरेषु च ॥ १७ ॥ [चक्रेश्वरी] चक्रेश्वरी हेमवणी ताारूढाऽष्टबाहुका । वरं बाणं (८)चक्र ( शक्तिशूलमनाकुलम् ?) ॥ १८ ॥* [अम्बिका] सिंहारूढाऽम्बिका पीता(मलुबि ?)नागपाशकम् । अङ्कुशश्च तथा(९)पुत्र तथा हस्तेष्वनुक्रमात् ॥ १९ ॥ [पार्श्वः] (१०)पार्श्वे स्यात् पार्श्वनानाथास्य कूर्मारूढा गजजानना । बीजपूरोरगं नागं नकुलं श्यामवर्णकैः ॥ २० ॥ [पद्मावती] (११)रक्तायसावती पूर्णी कुर्कुटोरगचतुर्भुजा । (१२)पद्मपाशोंशो बीजपूरं हस्तेषु कारयेत् ॥ २१ ॥ (१) 'धरणप्रिया' इति स्यात् । (२) 'पद्मावती' इति साधु । (३) 'क्रमाच् शासनदेवताः' इति स्यात् । (४) 'यक्षयक्षिणी-' इति स्यात् । (५) 'ऋषभे' इति स्यात् । (६) 'हेमवर्णो गजाननः' इति स्यात् । (७) 'वरोऽक्षसूत्रं पाशञ्च बीजपूरं करेषु च' इति स्यात् । (८) 'पाशचक्र' 'चक्रपाशं' वा स्यात् । (९) 'पत्र' इति स्यात् । (१०) 'पावः स्यात् पाश्वनाथस्य कूर्मारूढो गजाननः' इति स्यात् । (११) 'पद्मावती रक्तवर्णा कुक्कुटस्था' इति स्यात् । (१२) 'पद्मं पाशाङ्कुशौ' इति स्यात् । * अप्रैतदनन्तरं नेमिनाथोपासकस्य 'गोमेघ'यक्षस्य लक्षणं लेखकप्रमादात् श्रुटितम् इति सम्भाव्यते। यतोऽन्न ग्रन्थकृता संक्षेपबुद्धा जिनोपासकानां यक्षाणां यक्षिणीनाश्च तावन्ति लक्षणान्यनभिधाय 'चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः' (२५) इत्यग्रिमप्रतिज्ञाग्रन्थानुसारेण आदिनाथ( ऋषभ) नेमिनाथ-पार्श्वनाथ-महावीराणामुपासकान् गोमुख-गोमेघ-पार्वमातङ्गनाम्नो यक्षान् , चक्रेश्वर्यम्बिका-पद्मावती-सिद्धायकाख्या यक्षिणीश्च लक्षयितु प्रवृत्तम् इति विज्ञायते। नास्ति चास्य गोमेघ'मलक्षयतः प्रतिज्ञातार्थपरिसमातिरित्यबसेयम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339