Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठोऽध्यायः
[ मातङ्गः] महावीरस्य मातङ्गो (१)गजारूढो मितो भवेत् । दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ २२ ॥
[सिद्धायका] सिद्धायका नीलवर्णा (२)सिद्धारूढाश्चतुर्भुजा । पुस्तकं चाभयं (३)दत्ते बाणं वै मातुलिङ्गकम् ॥ २३ ॥
अथ द्वितीय भेदेन चक्रेश्वरी द्वादशभुजाष्टचक्राणि वज्रयोर्द्वयमेव च । मातुलिङ्गाभये चैव पद्मस्था गरुडोपरि ॥ २४ ॥
. [जिनेषु चतुणी प्राधान्यकथनम् ] जिनस्य मूर्तयोऽनन्ताः पूजिताः (४)सौख्यसर्वदा । चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥ २५ ॥
[एषां नामानि ] श्रीआदिनाथो नेमिश्च (५)पर्वे वीरचतुर्थकः । (६)चक्रे चर्याम्बिका पद्मावती सिद्धायकेति च ॥ २६ ॥ कैलासं सोमशरणं सिद्धिवर्ति सदाशिवम् । सिंहासनं धर्मचक्रमुपरीन्द्रातपत्रकम् ॥ २७ ॥ .. [जिनप्रतीहारनामानि ] इन्द्र इन्द्रजयश्चैव माहेन्द्रो विजयस्तथा। धरणेन्द्रः पद्मकश्च सुनाभः सुरदुन्दुभिः ॥ २८ ॥ इत्यष्टौ च प्रतीहारा वीतरागे तु शान्तिदाः ।
[प्रतीहाराणामायुधानि ] फलं वज्राङ्कुशौ दण्डमिन्द्र(७)मिन्द्रजयस्तथा ॥ २९ ॥ द्वौ वज्रौ फलदण्डश्च माहेन्द्रो विजयोद्भवः ।
( तदा युद्धयोगाद्भवा त्रिपञ्चादिफणोद्धंगाः ? ) ॥ ३० ॥ (१) 'गजारूढः सितो' इति स्यात् । (२) 'सिंहारूढा चतुर्भुजा' इति स्यात् । (३) 'धत्ते' इति स्यात् । (४) 'सर्व सौख्यदाः' इति स्यात् । (५) 'पार्यो वीरश्चतुर्थकः' इति स्यात् । (६) 'चक्रेश्वर्यम्बिका' इति स्यात् । (७) 'इन्द्रजय' इति स्यात् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339