Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपमण्डने धरणेन्द्रः पद्मकश्च सर्वे शान्तिकराः स्मृताः । यक्षरूपाधिकाराश्च निधिहस्ताः (१)शुभोदराः ॥ ३१ ॥ (२)सुनाभ्यो दुन्दुभश्चैव क्रमेणाष्टौ प्रकीर्तिताः । इत्यष्टौ च प्रतीहारा वीतरागाः प्रकीर्तिताः ॥ ३२ ॥ (३)नागरादिपूरग्रामे सर्वे विघ्नप्रणाशनाः । छत्रत्रयं जिनस्यैव रथिकाभिस्त्रिभि(४)युताः ॥ ३३ ॥ अशोकद्रुमपत्रैश्च देवदुन्दुभिवादिकैः । सिंहासनमसुराद्यो गजसिंहा विभूषिताः ॥ ३४ ॥ मध्ये च कर्मचक्रं च तत्पार्श्वयोश्च यक्षिणी। द्वितालविस्तराः कार्या बहिः परिकरस्य तु ॥ ३५ ॥ दैये तु प्रतिमा तुल्या तयोरूर्वे तु तोरणम् । वाहिकाबाह्यपक्षे तु (५)गोसिंहैरलंकृताः ॥ ३६॥ कर्तव्या द्वारशाखा च तत्तन्मूर्तिगसंयुता । तोरणं पञ्चधा प्रोक्तं रथिकायें च देवताः ॥ ३७॥ ललितं चेतिकाकारं त्रिरथं वलितोदरम् । श्रीपुञ्ज पञ्चरथिकं सप्तावानन्दवर्धनम् ॥ ३८ ॥ रथिकायां भवेद् ब्रह्मा विष्णुरीशश्च चण्डिका । जिनो गौरी गणेशश्च स्वे स्वे स्थाने सुखावहाः ॥ ३९॥
इति परिकरः । श्रीमद्देशे (६)भेदपाठाभिधाने (७)क्षेत्राख्येऽभूत् सूत्रधारो वरिष्ठः ।
पुत्रो ज्येष्ठो मण्डनस्तस्य तेन प्रोक्तं शास्त्रं मण्डनं रूपपूर्वम् ॥ ४० ॥ इति श्रीसूत्रधारमण्डनविरचिते वास्तुशास्त्र रूपमण्डने (८)षष्ठमोऽध्यायः समाप्तः ।
॥ समाप्तश्चायं ग्रन्थः ॥
(१) 'शुभोदयाः' इति स्यात् । (२) 'सुनाभो' इति स्यात् । (३) 'नगरादिपुर' इति स्यात् । (४) '-युतम्' इति स्यात् । (५) 'गोसिंहैः समलंकृताः' इति स्यात् । (६) 'मेद-' इति स्यात् । (७) 'क्षेत्राख्योऽभूत्' इति स्यात् । (८) 'षष्ठोऽध्यायः' इत्येतन्मातं साधु ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339