SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः [ मातङ्गः] महावीरस्य मातङ्गो (१)गजारूढो मितो भवेत् । दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ २२ ॥ [सिद्धायका] सिद्धायका नीलवर्णा (२)सिद्धारूढाश्चतुर्भुजा । पुस्तकं चाभयं (३)दत्ते बाणं वै मातुलिङ्गकम् ॥ २३ ॥ अथ द्वितीय भेदेन चक्रेश्वरी द्वादशभुजाष्टचक्राणि वज्रयोर्द्वयमेव च । मातुलिङ्गाभये चैव पद्मस्था गरुडोपरि ॥ २४ ॥ . [जिनेषु चतुणी प्राधान्यकथनम् ] जिनस्य मूर्तयोऽनन्ताः पूजिताः (४)सौख्यसर्वदा । चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥ २५ ॥ [एषां नामानि ] श्रीआदिनाथो नेमिश्च (५)पर्वे वीरचतुर्थकः । (६)चक्रे चर्याम्बिका पद्मावती सिद्धायकेति च ॥ २६ ॥ कैलासं सोमशरणं सिद्धिवर्ति सदाशिवम् । सिंहासनं धर्मचक्रमुपरीन्द्रातपत्रकम् ॥ २७ ॥ .. [जिनप्रतीहारनामानि ] इन्द्र इन्द्रजयश्चैव माहेन्द्रो विजयस्तथा। धरणेन्द्रः पद्मकश्च सुनाभः सुरदुन्दुभिः ॥ २८ ॥ इत्यष्टौ च प्रतीहारा वीतरागे तु शान्तिदाः । [प्रतीहाराणामायुधानि ] फलं वज्राङ्कुशौ दण्डमिन्द्र(७)मिन्द्रजयस्तथा ॥ २९ ॥ द्वौ वज्रौ फलदण्डश्च माहेन्द्रो विजयोद्भवः । ( तदा युद्धयोगाद्भवा त्रिपञ्चादिफणोद्धंगाः ? ) ॥ ३० ॥ (१) 'गजारूढः सितो' इति स्यात् । (२) 'सिंहारूढा चतुर्भुजा' इति स्यात् । (३) 'धत्ते' इति स्यात् । (४) 'सर्व सौख्यदाः' इति स्यात् । (५) 'पार्यो वीरश्चतुर्थकः' इति स्यात् । (६) 'चक्रेश्वर्यम्बिका' इति स्यात् । (७) 'इन्द्रजय' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy