Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपमण्डने अथ (१)कात्यायिनी वक्ष्ये (२)दशहस्तां महुर्भुजाम् । तेजःप्रतापदां नित्यं नृपाणां सुखबोधिनी(म्) ॥ ४५ ॥ त्रिभङ्गीस्थानसंस्थानां महिषासुरसूदनीम् । (३)दक्षत्रिशूलं खड्गश्च चक्रं बाणं च शक्तिकाम् ॥ ४६॥ खेटकं पूर्णचापञ्च पाशमङ्कुशमेव च । घण्टाञ्च वामतो दद्याद् दैत्यमूर्धजधृक्कराम् ॥ ४७ ॥ हृदि शूलेन निर्भिन्नं तिर्यग्दन्तविभूषितम् । रक्तरक्तीकृताङ्गश्च रक्तविस्फारितेक्षणम् ॥ ४८ ॥ वेष्टितं नागपाशैश्च भृकुटीभीषणाननाम् ॥ ४९ ॥ देव्यास्तु दक्षिणं पादं समं सिंहोपरि स्थितम् । किञ्चिदूर्व तथा (४)वाममङ्गुष्ठो महिषोपरि ॥ ५० ॥
इति श्रीकात्यायनीमूर्तिः । चण्डिकायाः प्रतीहारान् कथयिष्याम्यनुक्रमात् । वेताल(:)करटश्चैव पिङ्गालो भृकुटिस्तथा ॥ ५१ ॥ धूम्रकः कङ्कदश्चैव रक्ताक्षश्च सुलोचनः । दंष्ट्राननविक(५)टास्यसस्फुरदशनोज्ज्वलः ॥ ५२ ॥ बर्बरीव्यक्तदेहश्च रक्ताक्षश्च महाबलः । तर्जनी चैव खट्वाङ्गमूज़ डमरुदण्डकौ ॥ ५३ ॥ वेतालः सुसमाख्यातोऽपसव्ये करटः पुनः । अभयं खड्गखेटश्च दण्डः पिङ्गललोचनः ॥ ५४ ॥ (६)वामापसव्ययोगेन भवेद् भृकुटिनामकः ।
तर्जनी च त्रिशूलञ्च खटाङ्गं दण्ड एव च ॥ ५५॥ (१) 'कात्यायनी' इति साधुः। (२) 'दशहस्तां सुदुर्जयाम्' इति स्यात् । (३) 'दक्षे' इति स्यात् । (४) 'वाममङ्गुष्ठ' इति मात्रस्ये (२६०।६५) देवतामूर्ती च (१११७) पाठः। (५) '-टास्यः संस्फुर' इति स्यात् । (६) 'वामेऽपसव्य' इति स्यात् ।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339