Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पञ्चमोऽध्यायः
क्षेम
वरं त्रिशूलं खेटञ्च पानपातञ्च बिभ्रती । तदा नाम क्षेमारोग्यप्रदायिनी ॥ ३६ ॥ [ इति क्षेमङ्करी ]
कमण्डलुञ्च खड्गञ्च (१) मरुं पानञ्च पालकम् । हरसिद्धिस्तदा नाम सर्वेषां सिद्धिहेतवे ॥ ३७ ॥ [ इति हरसिद्धिः ]
इति दुर्गा मूर्तयः ।
गोधासना भवेद् गौरी लीलया हंसवाहना(:) । सिंहारूढा भवेद् दुर्गा मातरः स्वस्ववाहनाः ॥ ३८ ॥ [ इति गौर्यादीनां वाहनानि ]
चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी । रक्ताक्षी ( २ ) भयनेता च निर्मांसा विकृतानना ॥ ३९ ॥ (३) चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी । व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता ॥ ४० ॥ कपालमालिनी कृष्णा शव रूढा भयावहा त्रिशूलं खेटकं खड्गं धनुः पाशाङ्कुशौ शरः ॥ ४१ ॥ कुठारो दर्पणं घण्टा शङ्खं वस्त्रं गदा पविः । दण्डमुद्गर इत्येतैर्यथास्थानायुधैर्युता ॥ ४२ ॥ बाहुषोडशसंयुक्ता चण्डमुण्डविघातिनी ।
इति चामुण्डा ।
खड्गं पात्रञ्च मुशलं लाङ्गलञ्च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ ४३ ॥
अधीते य इमं नित्यं रक्तदन्त्या वपुस्तवम् । तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥ ४४ [ इति रक्तचामुण्डा ]
(१) 'डमरुं पानपात्रकम्' इति स्यात् । (३) इदमधे सम्पातायातं स्यात् ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
३७
(२) 'भीमनेत्रा' इति स्यात् ।
Loading... Page Navigation 1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339