Book Title: Devta Murtiprakaranam tatha Rupmandanam
Author(s): Upendramohan Sankhyatirtha
Publisher: Metropolitan Printing and Publishing House Limited
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः धारयन्तं करै रम्यैः पञ्चवक्तं त्रिलोचनम् । हेरम्बं मूषकारूढं कुर्यात् सर्वार्थकामदम् ॥ १७ ॥
इति हेरम्बः। लम्बोदरं त्रिनयनं पाशाङ्कुशधरं परम् । वरदाभयहस्तञ्च (१)लसत्कर्ण सचामरम् ॥ १८ ॥
[इति वक्तूतुण्डः] वामाङ्गे गजकर्ण तु सिद्धिं दद्याच्च दक्षिणे । पृष्ठकणे तथा द्वौ च धूमको बालचन्द्रमाः ॥ १९ ॥ उत्तरे तु सदा गौरी याम्ये चैव सरस्वती । पश्चिमे यक्षराजश्च बुद्धिः पूर्वे सुसंस्थिता ॥ २० ॥
इति गणेशायतनम् । सर्वे च वामनाकाराः सौम्याश्च पुरुषाननाः। तर्जनीपरशुपद्ममविघ्नो दण्डहस्तकः ॥ २१ ॥ तर्जनीदण्डापसव्ये स भवेद् विघ्नराजकः । तर्जनीखड्गखेटञ्च दण्डहस्तः सुवक्तकः ॥ २२ ॥ तर्जनीदण्डापसव्ये दक्षिणे बलवान् भवेत् । तर्जनीबाणचापश्च दण्डञ्च गजकर्णकः ॥ २३ ॥ तर्जनीदण्डापसव्ये गोकर्णः पश्चिमे स्थितः । (२)तर्जनीपद्माञ्चङ्कुशं दण्डहस्तः सुसौम्यकः ॥ २४ ॥ तर्जनीदण्डापसव्ये स चैव शुभदायकः । पक्षद्वारादिके सर्वे प्राच्यादिप्वष्ट संस्थिताः ॥ २५ ॥
इति गणेशप्रतिहाराः। कार्तिकेयं प्रवक्ष्यामि तरुणादित्यसन्निभम् । कमलोदरवर्णाभं कुमारं सुकुमारकम् ॥ २६ ॥
(१) 'चलत्कणे' इत्युचितः पाठो देवतामूतौ ( अ० ८, श्लो० २५ )। (२) 'तर्जनीपद्माङ्कुशं च' इति देवतामूर्ती ( अ० ८, श्लो० ३३)।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339