SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पञ्चमोऽध्यायः क्षेम वरं त्रिशूलं खेटञ्च पानपातञ्च बिभ्रती । तदा नाम क्षेमारोग्यप्रदायिनी ॥ ३६ ॥ [ इति क्षेमङ्करी ] कमण्डलुञ्च खड्गञ्च (१) मरुं पानञ्च पालकम् । हरसिद्धिस्तदा नाम सर्वेषां सिद्धिहेतवे ॥ ३७ ॥ [ इति हरसिद्धिः ] इति दुर्गा मूर्तयः । गोधासना भवेद् गौरी लीलया हंसवाहना(:) । सिंहारूढा भवेद् दुर्गा मातरः स्वस्ववाहनाः ॥ ३८ ॥ [ इति गौर्यादीनां वाहनानि ] चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी । रक्ताक्षी ( २ ) भयनेता च निर्मांसा विकृतानना ॥ ३९ ॥ (३) चण्डिका क्रूररूपा च पिङ्गकेशा कृशोदरी । व्याघ्रचर्मपरीधाना भुजङ्गाभरणान्विता ॥ ४० ॥ कपालमालिनी कृष्णा शव रूढा भयावहा त्रिशूलं खेटकं खड्गं धनुः पाशाङ्कुशौ शरः ॥ ४१ ॥ कुठारो दर्पणं घण्टा शङ्खं वस्त्रं गदा पविः । दण्डमुद्गर इत्येतैर्यथास्थानायुधैर्युता ॥ ४२ ॥ बाहुषोडशसंयुक्ता चण्डमुण्डविघातिनी । इति चामुण्डा । खड्गं पात्रञ्च मुशलं लाङ्गलञ्च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ ४३ ॥ अधीते य इमं नित्यं रक्तदन्त्या वपुस्तवम् । तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥ ४४ [ इति रक्तचामुण्डा ] (१) 'डमरुं पानपात्रकम्' इति स्यात् । (३) इदमधे सम्पातायातं स्यात् । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ३७ (२) 'भीमनेत्रा' इति स्यात् ।
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy