SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ रूपमण्डने गण्डकश्चीरकर्युक्तं मयूरवरवाहनम् । (१)स्थापनीयाखेटनगरे भुजान् द्वादश कल्पयेत् ॥ २७ ॥ चतुर्भुजः (२)कर्पटे स्याद् वने ग्रामे द्विबाहुकः । दक्षिणे शक्तिपाशञ्च खड्गं वाणं त्रिशूलकम् ॥ २८ ॥ (३)वरदैश्चैकहस्तस्यादथवाऽभयदो भवेत् । एते दक्षिणतो ज्ञेयाः केयूर(४)वनकोज्ज्वलाः ॥ २९ ॥ धनुः पताका मुष्टिश्च तर्जनी तु प्रसारिता । (५)खेटकं ताम्रचूडच्च वामहस्तेषु शस्यते ॥ ३० ॥ (६)द्विभुजश्च करे शक्तिर्वाम ऊर्ध्वं च (७)कर्कुटम् । चतुर्भुजे शक्तिपाशौ वामतो दक्षिणे त्वसिः ॥ ३१ ॥ वरदोऽभयदो वाऽपि (८)दक्षिणस्यात्तुरीयकम् । कार्तिकेयममुं शुभं कर्तव्यं सर्वकामदम् ॥ ३२ ॥ इति कार्तिकेयः। अक्षसूत्राम्बुपात्रे च अधोहस्ते प्रकारयेत् । सर्वासामीदृशौ हस्तौ द्वावध्वौं कथयाम्यथ ॥ ३३ ॥ पद्मे युग्मे लीलया स्याल्लीला पद्मं च पुस्तकम् । लीलाङ्गी पाशपद्माभ्यां ललिता वज्रमङ्कुशम् ॥ ३४ ॥ पाशाङ्कुशौ लीलावती लीलया(c) पञ्च कीर्तिता(:) । ___ इति पञ्च लीलाः। वरं त्रिशुलं खेटञ्च पानपात्रं च बिभ्रती। नीलकण्ठं तथा नागा महालक्ष्मीः प्रकीर्तिता ॥ ३५॥ [इति महालक्ष्मीः ] (१) 'स्थानीयखेट-' इति स्यात् । (२) 'खवटे' इति स्यात्। (३) 'वरदश्चकहस्तः' इति स्यात् । (४) 'कनकोज्ज्वलाः' इति ‘-कटकोज्ज्वलाः' इति वा स्यात् । (५) 'खेटकस्ताम्रचूडच' इति साधुः। (६) 'द्विभुजस्य' इति स्यात् । (७) 'कुक्कुटः' इति साधुः। (८) 'दक्षिणः स्यात्तुरीयकः' इति स्यात् । For Private And Personal Use Only
SR No.020305
Book TitleDevta Murtiprakaranam tatha Rupmandanam
Original Sutra AuthorN/A
AuthorUpendramohan Sankhyatirtha
PublisherMetropolitan Printing and Publishing House Limited
Publication Year1936
Total Pages339
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy